________________
सटिप्पणा
खोपज्ञ वृत्तिः ॥ गाथा-५१ ॥१८९॥
अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कजाइ'त्ति क्रियते भवति; कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति । 'आरंभियत्ति प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ इति कृत्वाऽऽरम्भिकी स्यात् . अक्षीणकषायत्वाच्च मायाप्रत्ययेति ।" तथा तत्रैवाष्टमशते षष्ठोद्देशके प्रोक्तं-"जीवे णं भंते ! ओरालियसरीराओ कइकिरिए ? गोयमा! सिय तिकिरिए, सिय चउकिरिए, सिय पंच किरिए, सिय अकिरिएत्ति॥" एतवृत्तिर्यथा-"परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्व क्रिया अभिधातुमाह-'जीवेण- मि'त्यादि । 'ओरालियसरीराओ'त्ति औदारिकशरीरात्परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीव इति प्रश्नः । उत्तरं तु 'सिय तिकिरिए'त्ति यदकजीवोऽन्यस्य पृथिव्याः सम्बन्ध्यौदारिकशरीरमाश्रित्य कार्य व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीप्राद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतत्वात् स्यात् 'त्रिक्रियः' इत्युक्तम् , न पुनः स्याद् 'एकक्रियः स्याद् 'द्विक्रिय' इति । अविनाभावश्च तासामेवमधिकृतक्रिया हवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वाद् , अवीतरागकायस्य चाधिकरणत्वेन
प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः । उक्तं च प्रज्ञापनायामिहार्थे-"जस्सणं ट्रा.जीवस्स काइआ किरिया कजइ तस्स अहिगरणिया किरिया णियमा कञ्जइ, जस्स अहिगरणिया किरिया कन्जइ तस्स वि काइया किरिया
|णियमा कजई" इत्यादि । [ यस्य जीवस्य कायिकी क्रिया क्रियते, तस्याधिकरणिकी नियमाक्रियते । यस्याधिकरणिकी क्रिया क्रियते ॐ तस्यापि क यिकी क्रिया नियमात्क्रियते । ] तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति । यदाह-"जस्स णं जीवस्स
काइया किरिया कजइ, तस्स पारियावणिया सिय कन्जइ, सिय णो कजइ" इत्यादि। [यस्य जीवस्य कायिकी क्रियाक्रियते तस्य पारितापनिकी स्यात् क्रियते, स्यात् नो क्रियते । ] ततश्च यदा कायव्यापारद्वारेणाद्यक्रियात्रय एवं वर्त्तते, न तु परितापयति न चातिपातयति, तदा
PUCHUCHI