________________
धर्मपरीक्षा ॥१८॥
सटिप्पना | खोपत्र
वृतिः ॥ गाथा-५१ ॥१८॥
SSSSSSSS
स्यादेवेति व्यामूढधिया शङ्कनीयम् ; 'प्रमादयोगेन प्राणव्यपरोपणं हिंसा'-इति तत्त्वार्थे तल्लक्षणकरणाद् भगवति तदभावादेव, अत एव 'हिंसा नियतो दोषः, परिग्रहस्त्वनियतो दोषः' इत्यप्यपास्तम् , मैथुनादन्यत्राश्रवेऽनियतदोषत्वप्रतिपादनात् । तदुक्तं तत्त्वार्थवृत्ती| अ०७सू०११ "प्रमत्तयोगादसदभिधानमनृतम् , प्रमत्तयोगाददत्तादानं स्तेयम् , प्रमत्तयोगान्मृर्छा परिग्रहः, मैथुने प्रमत्तयोगादिति पदं न, यंत्राप्रमत्तस्य तथाभावे सति कर्मवन्धाभावस्तत्र प्रमत्तयोगग्रहणमर्थवद् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातवत् , मैथुने तु रागाद्वेषान्वयाविच्छेदात सर्वावस्थासु मैथुनासेविनः कर्मबन्ध इत्यादि।” एतेन द्रव्यहिंसया भगवतः प्राणातिपातकन्वप्रसङ्गोऽपि निरस्तः, द्रव्यपरिग्रहेण परिग्रहित्वप्रसङ्गतुल्य योगक्षेमत्वात् । किश्च वीतरागाणामप्रमत्तानां च जीवविराधनायां सत्यामप्यारम्भिकीप्राणातिपातिकीक्रियाऽभाव एव भणितः । तदुक्तं भगवत्यां शतक १ उद्देश २ "तत्थ णं जे ते संजया ते दुविहा पण्णत्ता । तंजहासरागसंजया य वीयरागसंजयाय । तत्थणं जे ते वीयरागसंजया ते णं अकिरिया। तत्थ ण जे ते सरागसंजया, ते दुविहा पण्णत्ता । तंजहा-पमत्तसंजया य अपमत्तसंजया य । तत्थ ण जे ते अपमत्तसंजया. तेसिणं एगा मायावत्तिया किरिया कजइ, तत्थ णं जे ते पमत्तसंजया तेसि णं दो किरियाओ कजंति । तंजहा-आरंभिया य मायावत्तिआ य इत्यादि॥" [तत्र च ये ते संयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-सरागसंषताश्च वीतरागसंयताश्च । तत्र च ये ते वीतरागसंयतास्ते चाक्रियाः। तत्र ये ते सरागसंयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-प्रमत्तसंयताश्च अप्रमत्तसंयताश्च । तत्र ये ते अप्रमत्तसंयतास्तेषामेका मायाप्रत्ययिकी क्रिया क्रियते । तत्र ये ते प्रमत्तसंयतास्तेषां द्वे क्रिये क्रियेते, तद्यथा आरम्भिकी मायाप्रत्ययिकी च ॥] एतवृत्तिर्यथा “सरागसंजय"त्ति अक्षीणानुपशान्तकषायाः, 'वीय. रागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च । 'अकिरिय'त्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः। 'एगा मायावत्तियति