________________
वर्मपरीक्षा ॥१८७॥
सटिप्पणा ॥स्वोपन वृधिः ॥ गाथा-५१ ॥१८७॥
नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम् , न हि ते ततो निवृत्ता; अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कथञ्चिदात्माघारम्भकत्वेऽप्यनारम्भकत्वम् । यदाह-'जा जयमाणस्स' इत्यादि किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपू. वकव्यापारत्वं च शुभयोगत्वम् , तदुक्तं भगवतीवृत्ती-"शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम् , अशुभयोगस्तु तदेवानुपयुक्ततयेति । तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्वभावादेव, अशुभयोगश्च प्रमादोपाधिकः । तदुक्तं तत्रैव-"प्रमत्तसं| यतस्य हि शुभोऽशुभश्च योगः स्यात् , संयतत्वात्प्रमादपरत्वाच्चेति” तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षणादिकरणादशुभयोगदशायामारम्भिकीक्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भकत्वादात्मारम्भकादित्वम् , शुभयोगदशायां तु सभ्यक्रियोपयोगस्यारम्भिकीक्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम् , प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्प्रतिपादनात् । तदुक्तं प्रज्ञापनायां २२ क्रियापदे-"आरंभिया णं भंते ! किरिया कस्स कजइ ? गोयमा ! अण्णयरस्सावि पमत्तसंजयस्स ॥” इति । [ आरम्भिकी भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य । ] एतवृत्तिर्यथा "आरंभिया णं इत्यादि अण्णयरस्सावित्ति । अत्रापिशब्दो भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्यैकतरस्य कस्यचित्प्रमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमईसम्भवाद् , अपिशब्दोऽन्येषामधस्तनगुणस्थानवर्तिनां नियमप्रदर्शनार्थः । प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतप्रभृतीनामिति" ॥ अस्यां व्यवस्थायां सिद्धायां जानतोऽपि भगवतो धर्मोपकरणधरणेऽवजनीयस्य द्रव्यपरिग्रहस्येव गमनागमनादिधर्म्यव्यापारेऽवर्जनीयद्रव्य हिंसायामप्यप्रमत्तत्वादेव नाशुभयोगत्वमिति प्रतिपत्तव्यं । न च भगवतो धर्मोपकरणसत्त्वेऽपि मूर्छाऽभावेन परिग्रहत्वत्यागान्न परिग्रहदोषः, द्रव्यहिंसायां तु सत्यां प्राणवियोगरूपतल्लक्षणसत्त्वात्तदोषः
90%A4%
A
ADA