________________
धर्मपरीक्षा ॥१८६॥
सटिप्पणा । ॥खोपज्ञ वृतिः ॥ गाथा-५१ ॥१८॥
तिषिद्धन्वज्ञानात , तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिद्धाऽनायासेनैव भगवतोऽपवादप्रवृत्तिः, तस्मादुन्नतनिम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिकप्रकर्षापकर्षशालिगुणोपहितक्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति सूत्रोदितक्रियाविशेषरूपयोस्तयोयथोचिततया सम्भवोऽविरुद्ध इति युक्तं पश्यामः, तथा च धर्मोपकरणानेषणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् , तया भगवद्योगानामशुभत्वापत्तिर्वज्रलेपायितैव । यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनपणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकृत्यैवावसातव्यम् , 'यथाऽयं साधुरुदयनो राजा' इत्यत्र | राजत्वमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् , भगवत्स्वीकृतानां श्रुतव्यवहारसिद्धानां प्रतिषिद्धत्वाभिमतविषयप्रवृतीनां वस्तुतो न प्रतिषिद्धविषयत्वम् , न वा ताभिः 'इदं सावद्यम्' इति प्रज्ञाप्य प्रतिषेवित्वम् , इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्याश्चानवद्यन्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिप्रतिषेधवाक्ये श्रुतव्यवहारशुद्धानेषणोयातिरिक्तानेषणीयादेनिषे. ध्यत्वं वक्तव्यम् । तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यप्रतिषिद्धमेवेत्याभोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां क्वापि न स्यादिति त्वदपेक्षया यतीनामशुभयोगत्वमुच्छियेतेवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभत्वम् , अशुभयोगजन्यजीवघातो जीवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायत्वप्रसङ्गा, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच्च ।। न हि ते आभोगेन जीवं मन्तीति । अस्ति च तेष्वप्यारम्भकत्वव्यवहारः। तदुक्तं भगवतीवृत्तौ-'तत्थ णं जे ते असंजया ते अविरई पडुच्च आयारंभा वि जाव णो अणारंभा॥" [तत्र ये ते असंयतास्ते | अविरतिं प्रतीत्य आत्मारम्भा अपि यावद् नो अनारम्भाः । ] इत्यस्य व्याख्याने "इहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां