SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१७॥ |सटिप्पना खोपड चिः ॥ गाथा-४५ ॥१७॥ SAHASRCISHRA यातू, सेवक:-प्रतिषेवक' इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिषेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः ॥ अनाभोगजद्रव्यहिंसायाः प्रतिषिद्धप्रतिषेवणरूपत्वे उपशान्तमोहवृत्तित्वे च न बाघकमिति चेत् । न, प्रतिषेवापदविषयविभागेऽनाभोगजप्र तिषेवाप्या अपि परिगणनाद् । यदागम:-"दसविहा पडिसेवणा पण्णत्ता । तं० दप्प१प्पमाय२ऽणाभोगे ३, आउरे ४ आवईइ(सु) ॐा५य ॥ संकिए ६ सहसकारे ७, भय८प्पदोसा ९ य वीमंस १०त्ति ॥१॥" [दर्पप्रमादानाभोगे आतुरे आपत्सु च ॥ शंकिते सहसा कारे भयात्प्रद्वेषाद्विमर्शाच्च ।। स्थानांग सू० ७३३] तस्माद् द्रव्यहिंसायाः प्रतिषेवणारूपत्वाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रतिषवित्वव्याप्ययथाख्यातचारित्रनिर्ग्रन्थत्वयोस्तत्र का प्रत्याशा? मोहोदयविशिष्टप्रतिषवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वीतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन् , मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रतिषेवणाभेदस्य कापि प्रवचनेऽश्रुतत्वात् , प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकाद्युपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषवित्वाभिधानाद् । मोहोदयमात्रमपि न प्रतिषेवणाजनकमिति तत्सत्ताजन्यप्रतिषवणवाापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुन्चे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र सूत्रसम्मतिप्रदर्शनमत्यसमञ्जसम् , ततः पुलाकवकुशप्रतिसेवाकुशीलत्रयवृत्त्यपकृष्टसंयमस्थाननियतसञ्ज्वलनोदयव्याप्य एव व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्तव्यः, स एव च साधूनां गर्हणीय इति । " इत्तो उ वीयरागो, ण किंचि वि करेइ गरहणिजं तु ॥" इत्यनेन तदत्यन्ताभाव एव वीतरागस्य प्रतिपाद्यते, न तु द्रव्यहिंसाभावोऽपीति प्रतिपत्तव्यम् ॥ ४५ ॥ एतदेव स्फुटीकुर्वनाहअकरणणियमावेक्ख, एयं भणिति अपडिसेवाए॥ इत्तो जिणाण सिद्धी, ण उदव्ववहस्स पडिसेहो॥४६॥ [अकरणनियमापेक्षमेतद् भणितमिति अप्रतिषेवायाः । इतो जिनानां सिद्धिर्न तु द्रव्यवधस्य प्रतिषेधः॥ ४६॥] PERS
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy