SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१७॥ सटिप्पा ॥स्वोपड़ वृधिः ॥ गाथा-४५ | ॥१७॥ HAPPEARN त्रविलोपप्रसङ्गः । अथोपशान्तमोहवीतरागख मोहनीयसत्ताहेतुकः कदाचिदनाभोगसहकारिकारणवशेन गर्दापरायणजनस्व प्रत्यक्षत्वाद् गर्हणीयो जीवघातो भवत्येव, न तु यथाख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्रवृत्तरेव तल्लोपहेतुत्वात् । न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु साम्परायिकक्रियाहेतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन । सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् ; उत्सूत्रप्रवृत्तीर्यापथिकीक्रिययोः सहानवस्थानाद् । यदागम:-"जस्स णं कोहमाणमायालोमा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कजति। तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किरिया कजति, से णं उस्सुत्तमेव रीयइत्ति ॥” [यस्य खलु क्रोधमानमायालोमा व्युच्छिन्ना भवन्ति, तस्य खलु ईर्यापथिकी क्रिया क्रियते तथैव यावत् | उत्सूत्रं रीयमाणस्य साम्परायिका क्रिया क्रियते । स खलु उत्सूत्रं रीयते ।। भ० श०७३०१] तथाऽस्मादुत्सूत्रप्रवृत्तिप्रतिबन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यकपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिर्न वा यथाख्यातचारित्रहानिरिति चेत् । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धप्रतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यातचारित्रस्य निग्रन्थत्वस्य च विलोपप्रसङ्गस्य वज्रलेपन्वात् । “परिहारविसुद्धियसंजए पुच्छा, गो० णो पडिसेवए होजा, अपडिसेवए होजा । एवं जाव अहक्खायसंजए" उद्देश६।। "कसायकुसीलेणं पुच्छा, गो०णो पडिसेवए होजा, अपडिसेवए होजा, एवं णिग्गंथेवि, एवं सिणाएवि ।" भ० श० २५ उद्देश७ [परिहारविशुद्धिकसंयते पृच्छा, गौतम! न प्रतिषेवको भवेत् , अप्रतिषेवको भवेद् , एवं यावत् यथाख्यातसंयते ॥ कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद् अप्रतिषेवको भवेत् । एवं निग्रन्थेऽपि, एवं स्नातकेऽपि ॥] इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्रनिर्ग्रन्थत्रयविरोधिताप्रतिपादनात् , 'प्रति संयमप्रतिकूलार्थस्य सज्वलनकषायोद AAAA%D
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy