________________
धर्मपरीक्षा ॥१७०॥
सटिप्पणा
खोपत्र वृतिः ॥ गाथा-४५ ॥१७॥
PotatuREGIBABAUMISHNDIA
मयन्त तत्वेन दृष्त्वाद् , द्वितीय विवक्षितजीवरक्षार्थ केवलिनः प्रयत्न एव न भवेत् , केवलिना तत्सामग्न्यनतर्भूतत्वेन दृष्टत्वादिति, 'न च प्रयत्नं कुर्वतापि रक्षितुं न पारित' इति वचनं छमस्थसंयतमधिकृत्यैवेति कल्पनाऽप्यपास्ता, स्वव्यवहारविषयनियतत्वेनैव केवलिना खप्रयत्नस्य दृष्टत्वादिति दिग् ॥ ४४ ॥ ननु जीवहिंसा गर्हणीयाऽगहनीया वा?, अन्त्ये लोकलोकोत्तरव्यवहारबाधः ।आये च गर्हणीयं कृत्यं भगवतो न भवतीति भगवतस्तदभावसिद्धिरित्याशङ्कायामाहखोणे मोहे णियमा, गरहाविसओ ण होइ किच्चंति ॥सा ण जिणाणंति मई, दव्ववहे होइ णिब्बिसया ॥४५॥
[क्षीणे मोहे नियमाद् गर्दाविषयो न भवति कृत्यमिति । सा न जिनानामिति मतिर्द्रव्यवधे भवति निर्विषया ॥४५॥] 'खीणे मोहे'त्ति क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि, नियमानिश्चयेन, गहाँ विषयः। कृत्यं गर्हणीयं प्राणातिपातादिकर्म, | न भवति, कस्यापि प्राणिनः। तदुक्तमुपदेशपदे-"इत्तो उ वीयरागो, ण किंचि वि करेइ गरहणिज्जं तु"त्ति । एतवृत्त्येकदेशो यथा-"इतस्त्वित एवाकरणनियमात्प्रकृतरूपाद्, वीतरागःक्षीणमोहादिगुणस्थानवर्ती मुमिः, न नैव, किश्चिदपि करोति जीवघातादिकं सर्व गर्हणीयं त्ववद्यं, देशोनपूर्वकोटीकालं जीवनपीति।" इति हेतोः। सा हिंसा, जिनानां विगलितसकलगर्हणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः, केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद्, द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागर्हणीयत्वात् ; द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगर्हणीयत्वादशिष्टगर्दायाश्चाप्रयोजकत्वात् । क्रूरकर्माणो हि 'न स्वयंभूरयं किन्तु मनुष्य इति कथमस्य देवत्वम् ?, कवलाहारवतो वा कथं केवलित्वम् ?' इत्यादिकां भगवतोऽपि गहीं कुर्वन्त्येवेति । न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपातायभुपगमे यथाख्यातचारि
PAC%ACANDRABHA