SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा॥१६९॥ प्राणातिपातादीत्येवं परिणतः सन् सम्प्राप्तावपि, कस्य अतिपातस्य प्राणिप्राणविनाशस्येत्युपरिष्टात् सम्बन्धः, तथाऽपि विमुच्यते | वैरात् कर्मबन्धाद् । यस्तु पुनः, क्लिष्टपरिणामः सोऽव्यापादयन्नपि न मुच्यते वैरादिति ज्ञात्वा जीवघातस्येयपथप्रत्य - यकर्मबन्धजनने यतनापरिणामस्य सहकारित्वप्रतिपादनार्थ 'न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' इत्युक्तमित्यपरे ।। यत्तु वर्जनाभिप्राये सत्यनाभोगवशेन जायमानो जीवधातो द्रव्य हिंसात्मको न कर्मबन्धहेतुः, वर्जनाभिप्रायस्य कारणं तु जीवघाते नियमेन दुर्गतिहेतुकर्मबन्धो भवतीत्यभिप्राय एव, अन्यथा सुगतिहेतुषु ज्ञानादिष्वपि वर्जनाभिप्रायः प्रसज्येत । केवलिनस्तु वर्जनाभिप्रायो न भवत्येव, | सर्वकालं सामयिकसात वेदनीयकर्मबन्धकत्वेन दुर्गतिहेतुकर्मबन्धाभावस्य निर्णीतत्वात् तस्माञ्जीवघातस्तञ्जनितकर्मबन्धभावश्चेत्युभयमप्यनाभोगवन्तं तं संयतलोकमासाद्यैव सिद्धयतीति परस्य मतं तदसद् | वर्जनाभिप्रायस्य भगवतः प्रज्ञापनावृत्तावेवोक्तत्वात्, स्वकीयदुर्गतिहेतुकर्मबन्धहेतुत्वाज्ञानेपि स्वरूपेण वर्जनीये वर्जनाभिप्रायस्य भगवत उचितप्रवृत्तिप्रधानसामयिकफलमहिम्नैव सम्भवाद् ; अन्यथाऽनेषणीयपरिहाराभिप्रायोऽपि भगवतो न स्याद् अनेषणीयस्यापि खापेक्षया क्लिष्टकर्मबन्धहेतुत्वनिश्चयात्, तथा च ' तत्थ णं रेवतीए गाहावइणीए मम अट्ठाए दुवे कवोअसरीरा उबक्खडिया तेहिं णो अट्ठोत्ति । " [ तत्र च रेवत्या गाथापतिन्या मदर्थं द्वे कपोतशरीरे (कूष्मांडफले) उपस्कृते ताभ्यां नार्थ इति । ] अनेषणीयपरिहाराभिप्रायाभिव्यञ्जकं प्रज्ञप्तिसूत्रं शतक १५ व्याहन्येत, तस्माद्यथोचितकेवलिव्यवहारानुसारेण वर्जनाद्यभिप्रायस्तस्य सम्भवत्येवः प्रयत्नसाफल्यं तु शक्यविषयापेक्षया न त्वितरापेक्षयेति मन्तव्यम् । एतेन केवलज्ञानोत्पत्तिसमय एव केवलिना सर्वकालीनं सर्वमपि कार्य नियतकारणसामग्रीसहितमेव दृष्टं तत्र केवलिना निजप्रयत्नोऽपि विवक्षितजीवरक्षाया नियतकारणसामय्यामन्तर्भूतो दृष्टोऽनन्तर्भूतो वा, आद्ये केवलिप्रयत्नस्य वैफल्यं न स्यात्, तस्य तस्या नियतकारणसा सटिप्पणा ॥ खोपड दुचिः ॥ गाथा-४४ ॥१६९ ।।
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy