________________
धर्मपरीक्षा
॥१६८॥
म्पातिमसत्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात् । तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेप उल्लङ्घनं स एवातिविकटः प्रलङ्घनमिति ॥ " स च जीवरक्षोपायप्रयत्नो निर्ग्रन्थेन ज्ञात एवेति तस्याशक्यपरिहारजीवहिंसायां तद्रक्षाविघटको नानाभोगः, किन्त्वशक्तिः, सा च योगापकर्षरूपा निर्ग्रथस्नातकयोः स्थानौचित्येनाविरुद्धेति प्रतिपत्तव्यम् ।। यदि च तादृशरक्षोपायाः केवलियोगा एव, तदनाभोगश्च निर्ग्रन्थस्य तद्विघटक इति वक्रः पन्थाः समाश्रीयते तदा प्रेक्षावतामुपहासपात्रताऽऽयुष्मतः, यत एवमनुपायादेव तस्य तद्रक्षाभाव इति वक्तव्यं स्यात्, न तूपायानाभोगादिति कारणवैकल्यमेव हि कार्यविघटने तन्त्रं न तु कारणज्ञानवैकल्यमपि । न च केवलियोगानां स्वरूपत एव जीवरक्षा हेतुत्वमित्यपि युक्तिमद्, उल्लङ्घनप्रलङ्घनादिवैफल्यापत्तेः, केवलियोगेभ्यः स्वत एव जीवरक्षासिद्धौ तत्र तदन्यथासिद्धेः, अनुपायविषयेऽपि क्रियाव्यापाराभ्युपगमे च कोशादिस्थितिसाधनार्थमपि तदभ्युपगमप्रसङ्गात् । यदि च साध्वाचारविशेषपरिपालनार्थ एव केवलिनोऽसौ व्यापारो न तु जन्तुरक्षानिमित्तः, तस्याः स्वतः सिद्धत्वेन तत्साधनोद्देशवैयर्थ्यात् जन्तुरक्षानिमित्तत्वं तूपचारादुच्यते, मुख्यप्रयोजनसिद्धेश्व न तद्वैफल्यमिति च वक्रकल्पना त्वयाऽऽश्रीयते, तदा 'स्वशस्त्रं स्वोपघाताये 'ति न्यायप्रसङ्गः । एवं ह्यशक्य परिहारजीव हिंसास्थलेऽपि साध्वाचारविशेषपरिपालनार्थस्य भगवत्प्रयत्नस्य सार्थक्यसिद्धौ 'संचेययओ अ जाई सत्ताइं जोगं पप्प विणस्संती'त्यत्र छद्मस्थ एवाधिकृत इति स्वप्रक्रियाभङ्गप्रसङ्गात् । तस्मादाभोगादनाभोगाद्वा जायमानायां हिंसायां प्राणातिपातप्रत्ययकर्मबन्धजनकयोगशक्ति विघटनं यतनापरिणामेन क्रियत इत्येदर्थप्रतिपादनार्थ " न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः " इत्युक्तम् । अत एव सूत्रेऽपीत्यमेव व्यवस्थितम् । तथा हि- " वजेमित्तिपरिणओ, संपती विमुच्चई वेरा ॥ अवर्हतो वि ण मुच इ. किलिङ भावोऽतिवायस्स ||६१॥” इति ॥ [ ओघनिर्युक्ति ] एतद्वृत्तिर्यथा - वर्जयाम्यहं
सटिप्पणा ॥ खोपड़ वृचिः ॥ गाथा-४४
॥ १६८ ॥