________________
धर्मपरीक्षा
॥१६॥
म्यम् । इत्थं च-"तस्स असंचेययओ, संचेययओ अ जाई सत्ताई।जोगं पप्प विणस्संति, णत्थि हिंसाफलं तस्स ॥७५१॥” "तस्यै
इसटिप्पणा वंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य, असचेतयतोऽजानानस्य,किं ? सत्त्वानि, कथं ? प्रयत्नं कुर्वतोऽपि, कथमपि न दृष्टः प्राणी,
॥स्वोपड़ | व्यापादितश्च । तथा सञ्चेतयतो जानानस्य, कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च, न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य, यानि मत्त्वानि, योग कायादिव्यापार, प्राप्य विनश्यन्ति । तत्र नास्ति नस्य साधोः, हिंसाफलं साम्परायिक गाथा-४५ संसारजननं दुःखजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये बद्धमन्यस्मिन्समये क्षिप(क्षपय)तीति" ओघ- ॥१६७॥ नियुक्तिसूत्रवृत्तिवचने "नच प्रयत्नं कुर्वतापि रक्षितुं पारितः" इति प्रतीकस्य दर्शनाजीवरक्षोपायानाभोगादेव तदर्थोपपत्तः, केवलि. मिन्नस्यैव ज्ञानिनो योगानामीर्यापथप्रत्ययकर्मबन्धानुकूलसत्त्वहिंसाहेतुत्वं सिद्धथति न तु केवलिन इति निरस्तम् । न च प्रयत्नं कुर्वतापीत्यनेन प्रयत्नवैफल्यासिद्धिः, निजकायव्यापारसाध्ययतनाविषयत्वेन तत्साफल्याद् , अन्यथा तेन केवलिनो वीर्याविशुद्धिमापादयतो निर्ग्रन्थस्य चारित्राविशुद्धथापत्तः, तस्याप्याचाररूपप्रयत्नघटितत्वाद् यतनात्वेन चोभयत्र शुद्धयविशेषाद् । न चाशक्यजीवरक्षास्थलीययतनायां तद्रक्षोपहितत्वाभावो रक्षोपायानाभोगस्यैव दोषो, न तु निर्ग्रन्थस्य चारित्रदोषः, स्नातकस्य तु केवलित्वान्न तदनाभोगः सम्भवतीति तद्योगा रक्षोपहिता एव स्वीकर्तव्या इति वाच्यम् । तथाविधप्रयत्नस्यैव जीवरक्षोपायत्वात् , केवलिनापि तदर्थमुल्लचनप्रलङ्घनादिकरणात् ॥ तदुक्तं प्रज्ञापनायां समुद्धातानिवृत्तस्य केवलिनः काययोगव्यापाराधिकारे-"कायजोगं जुजमाणे आगच्छेज वा, गच्छेज वा, चिद्वेज वा, णिसीएज वा, तुअर्टेज वा, उल्लंघेज वा, पलंधेज वा, पाडिहारियं पीढफलगसेजासंथारंग पच्चप्पिणेजत्ति ॥ [ पद ३६]" अत्र उल्लंघेज वा पलंघेजवे'त्येतत्पदव्याख्यानं यथा-" अथवा विवक्षिते स्थाने तथाविधस
LORANHAIR