________________
सटिप्पण
धर्मपरीक्षा ॥१६६॥
वृधिः ॥ माधा-४५
CAMERABADMAS
अमृढलक्खो, ण कहेइ भविस्सईण तं बत्ति ॥५६४॥" [सर्वां च देशविरतिं सम्यक्(क्त्वं) पश्यति च भवति कथनात् । इतरथा अमूढलक्ष्यो न कथयति भविष्यति न तद्वेति ॥१॥] ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न सम्भवतीति चेत् ।।
न, यथा हि-भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः खल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत ४। तेषु कर्णशूलायते । यत उक्तं सिद्धसेनदिवाकरः(द्वा०२)"सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् ।।
तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः॥१३॥" इति । अत एव च लोकनाथत्वमपि भगवतो बीजाधानादि| संविभक्तभव्यलोकापेक्षया व्याख्यातं ललितविस्तरायाम् , “अनीशि नाथत्वानुपपत्तेरिति” । न चैतावता भगवतो वाक्प्रयत्नस्य विफलत्वं, शक्यविषय एव विशेषतः साध्यत्वाख्यविषयतया तत्प्रवृत्तेस्तत्फलवत्त्वव्यवस्थितेः। तथा सामान्यतः सर्वजीवरक्षाविषयोऽपि भगवतः कायप्रयत्नो विशेषतः शक्यजीवरक्षाविषयत्वेन सफलः सन् नाशक्यविषये वैफल्यमात्रेण प्रतिक्षेप्तुं शक्यत इति । न चाधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद् , इतरापेक्षया वैफल्यस्य तत्रावास्तवत्वाद् । अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिरिति तत्साफल्याथ भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयमिति शङ्कनीयम् । एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नाक्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तरायक्षयवैफल्यापत्तिनिरासार्थे भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति । यदि च क्षुत्पिपासयोनिरोधुमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात् , तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथा स्वरूपेणैव फलवत्वमिति किं वैष
BAHAARADAISABUA