________________
धर्मपरीक्षा ॥१६५॥
।
'जेणं'ति । येन कारणेन, भांति केचिद्, यदुत यस्य योगात्कदाचिदपि जीववधो भवति, सोऽस्माकं केवली न भवति । स खलु साक्षान्मृषावादी, जीववधं प्रत्याख्यायापि तत्करणात् इदं हि भक्तिवचनं मुग्धैर्ज्ञायते, परमार्थतस्तु भगवत्य| सद्दोपाध्यारोपात् कुविकल्प एवेति भाव: ।। ४३ ।। एतन्निराकरणार्थमुपक्रमते -
ते इय पजणुजुज्जा, कह सिद्धो हंदि एस नियमो भे ॥ जोगवओ दुव्वारा, हिंसा जमसक्क परिहारा ॥४४॥ [ ते इति पर्यनुयोज्याः कथं सिद्धो हंदि एष नियमो भवताम् । योगवतो दुर्वारा हिंसा यदशक्यपरिहारा ॥ ४४ ॥ ]
'ते इय'त्ति । ते एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्याः इत्यमुनाप्रकारेण यदुत एष नियमो - यस्य योगात् कदाचिदपि जीववधो भवति स न केवलीत्येवंलक्षणः, कथं मे भवतां, सिद्धः?, यद्यस्मात्कारणाद्, योगवतः प्राणिन आत्रयोदशगुणस्थानम्, | अशक्यपरिहारा हिंसा दुर्वारा, योगनिरोधं विना तस्याः परिहर्तुमशक्यत्वात्, तदीययोगनिमित्तकहिंसानुकूलहिंस्य कर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्ती केन वार्यतामिति । अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति चेत्, न । अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्यपरिहारत्वाद्, योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्य परिहारत्वादिति विभावनीयम् । नन्वीदृश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षाप्रयत्नः क्रियते न वा १, आधे न क्रियते चेत्, तदाऽसंयतत्वापत्तिः । क्रियते चेत्, तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः; सा च केवलिनो न सम्भवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद्, अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केवलित्वं न सम्भवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते । तदुक्तमावश्यकनिर्युक्तौ - "सव्वं च देसविरई, सम्मं पिच्छइ य होइ कहणाउ ॥ इहरा
सटिप्पणा
॥खोपय
चिः ॥ गाथा-४४
॥१६५॥