________________
धर्मपरीक्षा ॥१६४॥
'सुत्तं भासंताणं ति। सूत्रं भाषमाणानां, नित्यं निरन्तरं, भगवांस्तीर्थङ्करो, हृदयस्थितो भवति, भगवदाज्ञाप्रणिधाने
PIसटिप्पणा भगवत्प्रणिधानस्यावश्यकत्वात् , आज्ञायाः ससम्बन्धिकत्वात् । हृदयस्थिते च तस्मिन् भगवति सति, नियमानिश्चयात् , कल्या
॥खोपत्र णसम्पत्तिः, समापत्त्यादिभेदेन तीर्थकद्दर्शनस्य महाकल्याणावहतायाः पूर्वाचार्यः प्रदर्शितत्वादिति ॥४१॥
चिः ॥ कल्याणप्रापकत्वं च हृदयस्थितस्य भगवतोऽनर्थनिराकरणद्वारा स्थादित्यन्वयव्यतिरेकाभ्यां तस्यानर्थनिराकरणहेतुत्वगुणमभिष्टुवन्नाह
गाथा-४१ हिययडिओ अभयवं, छिंदइ कुविगप्पमत्तभत्तस्स ॥ तयभत्तस्स उ तंमि वि, भत्तिमिसा होइ कुविगप्पो॥४२॥
४२-४३ • [ हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य । तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् भवति कुविकल्पः ॥४२॥] ॥१६॥ | हिययडिओ 'त्ति हृदयस्थितश्च भगवानात्मभक्तस्य स्खसेवकस्य, कुविकल्पं कुतर्काभिनिवेशरूपं, छिनत्ति । दुनिवारो हि प्राणिनामनादिभवपरम्परापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुद्धथ वा तत्कृताशुभविपाकानिस्तारयतीति । तदुक्तमन्यैरपि-“पुण्ये मनः कस्य मुनेरपि स्यात् , प्रमाणमेतस्य हि (मेनस्यपि) दृश्यवृत्ति ॥ तचिन्तिचित्तं परमेश्वरस्तु, भक्तस्य हृष्यत्करुणो रुणद्धि ॥१॥" इति । अन्वयप्रदर्शनमेतद् । व्यतिरेकमाह-तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु, तस्मिन्नपि सकलदोषरहिते जगजीवहिते भगवत्यपि, भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्ति व्यप-12 देशात् , कुविकल्पोऽसदोषाध्यारोपलक्षणो भवतीति, भगवतो हृदयेऽवस्थानाभावादिति भावः॥ ४२ ॥
कथं भगवत्यपि भक्तिमिषात् कुविकल्पो भवतीत्याहजेणं भणंति केइ, जोगाउ कयावि जस्स जीववहो। सो केवली ण अम्हं, सो खलु सक्खं मुसावाई ॥४३॥
[येन भणन्ति केचिद् योगात् कदापि यस्य जीववधः । स केवली नास्माकं, स खलु साक्षान्मृपावादी ॥४३॥]
SA564