________________
%
धर्मपरीक्षा ॥१३॥
सटिप्पणा स्वोपड़ पति गाथा-". |॥१६॥
Dark
जिद्वेन्द्रियं भदन्त किं संस्थितं प्रज्ञप्तं, गौतम क्षुरप्रसंस्थितं । घ्राणेन्द्रियं भदन्त किं संस्थितं प्रज्ञप्तं, गौतम अतिमुक्तकचन्द्रकसंस्थितं । चक्षुरिन्द्रियं भदन्त किं संस्थित प्रज्ञप्तं, गौतम मसूरकचन्द्रसंस्थितं । श्रोत्रेन्द्रियं भदन्त किं संस्थितं प्रज्ञप्तं, गौतम कदम्बपुष्पसंस्थितं प्रज्ञप्तं] इति तत्त्वार्थवृत्तौ अ० २ सू० १७।” अत्र हीन्द्रियसंस्थानं तत्परिमाणं चेति द्वयमुपक्रान्तं, संमतिप्रदर्शन तु पूर्वार्थ एवेत्येवं सिद्धर्षी- यवृत्त्यादर्शविशेषेऽपि जमालेरनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शनसदृशम् , सूत्रसंमतिस्तु देवकिविषिकत्वांश एव-इत्ययमर्थो न्याय्योऽन्यो वा तत्र कश्चित्सुन्दरोऽभिप्राय इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना कर्तव्या । यत्तु वस्तुगत्या समयभाषया तिर्यग्योनिकशब्द एवानन्तभवाभिधायको भवति । यदुक्तं "तिर्यग्योनीनां च" इति तत्त्वार्थ सूत्र अ०३ सू० १८ भाष्यवृत्तौ-"तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चन्द्रियास्तेषामपि परापरे स्थिती इत्यादि यावत्साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः"-इत्यादि इति । परेणोक्तं तत्त्वनाकलितग्रन्थानां विभ्रमापादकं प्रेक्षावतां तूपहासपात्रम् । परापरभवस्थितिकायस्थितिविवेकस्य तत्र प्रतिपादितत्वात् , उत्कृष्टकायस्थितेरेव तिर्यग्योनीनामनन्तत्वपर्यवसानात् प्रकृते च भवग्रहणाधिकारात् न तत्कायस्थितिग्रहणं कथमपि सम्भवतीति किं पल्लवग्राहिण्या समधिकविचारणयेति कृतं असक्तानुप्रसक्त्या ॥४०॥ तदेवं मरीचेरिव स्तोकस्याप्युत्सूत्रस्य दुःखदायित्वात् 'अन्येषां गुणानुमोदनं न कर्त्तव्यम्'-इत्युत्सूत्रं त्याज्यम् , कर्तव्या च गुणानुमोदना सर्वेषामपीति व्यवस्थापितम् । अथ सूत्रभाषकाणां गुणमाहसुत्तं भासंताणं, णिच्चं हिययहिओ हवइ भयवं ॥ हियद्विअंमि तमि य, णियमा कल्लाणसंपत्ती ॥४१॥
[सूत्रं भाषमाणानां नित्यं हृदयस्थितो भवति भगवान् । हृदयस्थिते तस्मिंश्च नियमात्कल्याणसंपत्तिः॥४१॥]
-RE
GAA-RESS
SS