SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ १६२॥ कृत्वा लांतके कल्पे त्रयोदश सागरोपमस्थितिकेषु देवकिल्विकेषु देवेषु देवकिल्बिषिकतया उत्पन्नः, गौतम जमालिरनगारः आचार्यप्रत्यनीक इत्यादि यावत् लान्तके कल्पे यावदुत्पन्नः ॥ जमालिर्भदन्त ततो देवलोकादायुःक्षयेण यावत्कुत्रोत्पत्स्यते गौतम चत्वारि पंच तिर्यग्योनिक मनुष्यदेव भवग्रहणानि संसारमनुपर्यय्य ततः पश्चात्सेत्स्यति यावदन्तं करिष्यति ] इत्येवम्भूतः पाठोऽस्ति । ” हेयोपादेयवृत्ताaft केषुचिदादर्शेष्वयमेव पाठोस्ति । आदर्शान्तरे च- "अतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवान् " - इति । उक्तं च प्रज्ञप्ती - 'जइ णं भंते ०" इत्यादिरचनया पाठोऽस्ति । एवंस्थिते मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति यदुत भगवत्यादिबहुग्रन्धानुसारेण परिमितभवत्वं जमा लेर्ज्ञायते, सिद्धर्षीय वृत्तिपाठविशेषाद्यनुसारेण चानन्तभवत्वमिति, तत्त्वं तु तत्त्वविद्वेद्यमिति; परं भगवती सूत्रं प्रकृतार्थेन विवृतमस्ति, तत्सांमुख्यं च वीरचरित्रादिग्रन्थं तेषु दृश्यते, संमतिप्रदर्शनं त्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्था पुरस्कारेणापि सम्भवति । यथा “नानाकारं कायेन्द्रियम्, असंख्येय भेदत्वात्, अस्य चान्तर्बहिर्भेदो निर्वृत्तेर्न कश्चित् प्रायः, प्रदीर्घत्र्यस्रसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम्, अतिमुक्तक पुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम्, किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूरवच्चक्षुरिन्द्रियम्, पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम्, तत्राद्यं स्वकायपरिमाणं द्रव्यमनश्च, शेषाण्यङ्गुलासंख्येय भागप्रमाणानि सर्वजीवानाम् । तथा चागमः (प्रज्ञापना) "फा सिंदिए णं भंते किंसंठि पण्णत्ते, गोयमा ! णाणासंठाणसंठिए । जिम्भिदिए णं भंते किंसंटिए पण्णत्ते ?, गोयमा ? खुरप्पसंठिए । घार्णिदिए णं भंते किंसंठिए पण्णत्ते ?, गोयमा ! अतिमुत्तय चंदगसंठिए पण्णत्ते । चक्खुरिंदिए णं भंते किंसंटिए पण्णत्ते ? गोयमा ! मस्तूरयचंदसंठिए । सोइंदिए णं भंते! किं संठिए पण्णत्ते !, गोयमा ! कलंबुआपुप्फसंठिए पण्णत्ते" [स्पर्शनेन्द्रियं भदन्त किं संस्थितं प्रज्ञप्तं, गौतम नानासंस्थानसंस्थितं । सटिप्पना || खोप वृतिः ॥ गाथा- ४० ।।१६२॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy