SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षां ॥१६१ ॥ सेत्स्यति' - इति शब्दसन्दर्भेण भगवती सूत्रालापकानुवाद्येव दृश्यते । सिद्धर्षीयोपदेश माला टीकायास्त्वादर्श भेदात्पाठभेदो दृश्यते । तथा हि-“आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निवास्तेषां गणो गच्छस्तस्य नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय - परित्यज्य, प्रव्रज्यां गृहीत्वा चशब्दादागमं चाधीत्य, जमालिर्भगवज्जामाता, हितमात्मनोऽकरिष्यद्, 'यदि' इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे, इह लोके प्रवचने वा अपतिष्यत् । तथा हि- मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं 'क्रियमाणं कृतम्' इत्यश्रद्दधानः " कृतमेव कृतम्” इति विपरीतप्ररूपणालक्षणादहिताचरणादेव लोकमध्ये वचनीये पतितोऽति दुष्करतपोविधानेऽपि किल्बि षदेवत्वं भवं चानन्तं निर्वर्तितवान्" इत्ययं (त्येवं) केषुचिदादर्शेषु पाठो दृश्यते ॥ “विपरीतप्ररूपणादहिता चरणादेव 'निह्वोऽयम्'इति लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवान् । ” इत्ययमपि कचिदादर्शे पाठो दृश्यते ॥ कचिच्च "तथामिथ्यात्वाभिनिवेशादसौ भगवद्वचनं 'क्रियमाणं कृनम्' – इत्यश्रद्दधानः " कृतमेव कृतम् इति विपरीतप्ररूपणलक्षणादहिताचरणादेव 'निवोऽयम्' इति लोकमध्ये वचनीये पतितोऽतिदुष्कर तपोविधानेऽपि किल्बिषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्तौ 'जइ णं भंते ! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमांसे कालं किच्चा लंतए कप्पे तेरससागरोवमठिइएस देवकिञ्चिसिएस देवेसु देवकिब्बिसियत्ताए उववन्ने ?, गोयमा ! जमाली णं अणगारे आयरियपडिणीए इत्यादि यावत् लंतए कप्पे जाव उववन्ने । जमाली णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव कहिं | उववज्जिहिति ?, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । " [ यदि भदन्त जमालिरनगारोऽरसाहारो विरसाहारो यावद्विविक्तजीवी कस्माद्भदन्त जमालिरनगारः कालमासे कालं 1 सटिप्पणा ॥खो पत्र वृचिः ॥ गाथा-४० ॥ १६९ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy