________________
धर्मपरीक्षा ॥१६॥
HA
18॥खोपत्र
L ASSICALCASS
तत्थवि से न याणेइ, किं मे किच्चा इमं फलं ॥४७॥ तत्तो वि से चइत्ता णं, लम्भिही एलमृअगं.।। णरगं तिरिक्खजोणिं वा, बोही
तसटिप्पण जत्थ सुदुल्लहा ॥४८॥" [लब्ध्वापि देवत्वं उपपन्नो देवकिल्बिषे । तत्रापि स न जानाति किं मम कृत्वेदं फलम् ।। ततोऽपि स च्युत्वा लप्स्यते एडमुकत्वं ।। नारकतिर्यग्योनि वा बोधिर्यत्र सुदुर्लभा॥] इति । तदतिकदाग्रहविजृम्भितम् , अत्र तिर्यगादिषु प्रत्येकं परिमितभव
वृतिः ॥ भ्रमणस्य व्यक्तमेवाभिधानात् , इच्छामात्रेणाविशिष्टानन्तभवकल्पनस्याप्रामाणिकत्वात् , स्थूलभवाभिधानमात्रमेतदित्यत्र प्रमाणाभावात् , गाथा-४. न च 'दूरान्निवृति मेष्यतीति' वचनानुपपत्तिरेवात्र प्रमाणम् , आसन्नतादरतयोरापेक्षिकत्वात् । किञ्च दूरपदं विनाऽप्येवंविधोऽर्थोऽन्यत्र ॥१६॥ | दृश्यते । तदुक्तं सर्वानन्दसूरिविरचितोपदेशमालावृत्तौ-"तिर्यक्षु कानपि भवानतिवाह्य कांश्चि-देवेषु चोपचितसञ्चितकर्मवश्यः॥ लब्ध्वा ततः सुकृतजन्मगृहे विदेहे, जन्मायमेष्यति सुखैकखनिर्विमुक्तिम् ॥१॥" इति । यत्तु जमाले साक्षात्तीर्थकरदूषकस्थापि पश्चदश भवाः, सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि पोडश भवा इति जिनाज्ञाराधनापेक्षया तद्विराधनमेव सम्यगिति परस्याभिधानं तदविवेकमूलम् । एवं हि दृढपहारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वम् , आनन्दादीनां च देवमनुजभवप्राप्तिक्रमणेति सुकृतापेक्षया दुष्कृतमेव सम्यगिति वदतोऽपि मुखं कः पिदध्यादिति । यदपि साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरीचेः कापिलीयदर्शनप्रवृत्तिहेतुसन्दिग्धोत्सूत्रभाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्वसंख्येयभवभ्रमणं, जमालेश्च साक्षात्तीर्थकरदृषकस्यापि पञ्चदश भवा इति महदसमञ्जसमिति परेणोपुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयोगाईम् , अन्यथा सन्दि| ग्धोत्सूत्रभाषिणोऽपि मरीचेनरकभवदुःखप्राप्तिः, निश्चितोत्सूत्रभाषिणश्च जमालेनेयमित्यत्र भवतोऽपि किमुत्तरं वाच्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् । दोघहीसंज्ञकायां वृत्तौ तु 'ततच्युतश्चत्वारि पंच तिर्यग्मनुष्यदेवभवग्रहणानि संसारमनुपर्यव्य महाविदेहे