________________
ॐ
धर्मपरीक्षा
सटिप्पणा * खोपज्ञ
वृत्तिः ॥ | गाथा-४
यविशेषेणैवान्यथावादिनामन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्सूत्रभाषिणोऽनन्तसंसारित्वनियमो न स्वपक्षपतितस्य यथाछन्दादेरिति ॥ ४॥ नन्वस्त्ययं विशेषो यत्परपक्षगतस्योत्सूत्रभाषिणो वयमेव जैना अन्ये तु जैनाभासाः' 'समाप्तिकामी मंगलमाचरेदिति' वेदेनैव बोधितकर्तव्यताकत्वेन प्रारिप्सितप्रतिबन्धकनिरासार्थ शिष्टाचारपरिपालनार्थश्चेति ग्रंथकारोक्तिरसंगतेतिचेत्, न । अन्वयष्यतिरेकम्यमिचाराभ्यां समाप्तिमात्रे मंगलस्य हेतुत्वाभावेन तादशवेदकल्पने प्रमाणाभावात् प्रत्यक्षत्वाभावाच । न च स्वसमसंख्यविनस्थलीयसमाप्ती मंगलहेतुः नास्तिकग्रन्थे च जन्मान्तरीयमंगलादेव समाप्तिरिति वाच्यम्, स्वन्यनसंख्यवितस्थले समात्यभावप्रसंगात्, न च स्वानधिकसंख्यविनस्थलीयत्वं निवेश्यम्, यत्र दश विघ्नाः पञ्च च प्रायश्चित्तेन नाशिताः पञ्च च मङ्गलात् तत्र समाप्त्यभावप्रसंगात् । न च प्रायश्चित्ताद्यनाश्यत्वमपि विशेषणं देयमिति वाच्यं, बलवतो विघ्नस्य बहुभिरपि मंगलैरनाशात् । बलवता मंगलेन च बहूनामपि विनानां नाशाच । किञ्च विघ्नः समाप्तौ विशेषणं, उपलक्षणं वा, नाद्यः विघ्नस्यापि मङ्गलजन्यत्वापतेः । नाऽन्त्यः नियतोपलक्ष्यतावच्छेदकाऽभावात् । उपलक्षणस्य नियतोपलक्ष्यतावच्छेदकत्वात् इति दिक् । आवश्यकत्वाद् विघ्नध्वंस एव मङ्गलफलं समाप्तिस्तु असति प्रतिबन्धके स्वकारणादेव भवति, कारीरीत इवाऽवग्रहनिवृत्तौ वृष्टिः, निर्विघ्नं परिसमाप्यता, इति कामनाऽपि " सविशेषणे हि वर्तमानौ विधिनिषेधौ सति विशेष्यबाधे विशेषणमुपसंक्रामत" इति न्यायाद् विघ्नध्वंसमात्रावगाहिनी, इत्यपि न रमणीयम् । मंगलं विनापि विघ्नध्वंसस्य प्रायश्चित्तादितो भावेन व्यभिचारात् । न च प्रायश्चित्ताद्यनाश्यविघ्नध्वंसे मंगलहेतुरतो न दोष इति वाच्यं, प्रायश्चित्तादीनामपि मंगलानाश्यबिघ्नध्वंसं प्रति हेतुत्वेऽन्योऽन्याश्रयात् । ननु विघ्नो माभूदितिकामनया प्रवृत्तेर्विघ्नप्रागभाव एवं मङ्गलफलमित्यपि न पेशलं वचनं, प्रागभावस्थानादित्वेन फलवायोगात् । न चागामिसमयविशेषेण प्रागभावसम्बन्धस्यानादित्वाऽभावेन तस्यैव मङ्गलफलस्वमिति वाच्यम्, स्वत आगन्तुकस्य समयविशेषेण तत्सम्बन्धरूपस्य तत्परिपालनस्थापि मङ्गलफलत्वायोगात् । शिष्टाचारपरिपालनं मंगलफलभित्यपि वार्तामात्रम्, तत्परिपालनस्यादृष्टद्वाराऽभीप्सितसिद्धिहेतुत्वे मंगलस्यैवाऽदृष्टार्थत्वौचित्यात्, विघ्नमविनाश्य शिष्टाचारपरिपालनजन्यधर्मविशेषस्य समायहेतुत्वे विघ्ननाशस्यैवावश्यकत्वाच । किञ्च शिष्टाचारेण विधि
6154AR-Ek