________________
धर्मपरीक्षा ॥१५७॥
अलहुपञ्जव त्ति" [ भावतो जीवे अनन्ता ज्ञानपर्यवा अनन्ता दर्शनपर्यवा अनन्ताश्चारित्रपर्यवा अनन्तगुरुलघुकपर्यवा अनन्ता अगुर्व| लघुकपर्यवाः ] तत्र ज्ञानदर्शनपर्यायाः सिद्धस्य साक्षादेवोक्ताः, चारित्रपर्यायाश्च तस्य न सम्भवन्ति " णो पारभविए चरित्ते" [नो पारभविकं चारित्रं] इत्यत्र सिद्धानां चारित्रस्य व्यक्तमेव निषिद्धत्वाद् । गुरुलघुपर्यायाश्चौदारिकादिशरीराण्याश्रित्य व्याख्याता इति तेऽपि सिद्धस्य न सम्भवन्ति । अगुरुलघुपर्यायाश्च कार्मणादिद्रव्याणि जीवखरूपं चाश्रित्य व्याख्याताः, तत्र कार्मणादिद्रव्याश्रितास्ते सिद्धस्य न सम्भवन्ति, जीवस्वरूपं त्वाश्रित्य सर्वांशशुद्धास्ते सम्भवन्ति परं तेऽपि साक्षाच्छब्देनोक्ता इति यावच्छन्दवाच्यं नावशिष्यते इति ततो यथा तत्र वाक्यार्थद्योतक एव यावच्छब्दस्तद्वदिहापि स्यादिति किमनुपपन्नमिति निपुणधिया निभालनीयं प्रेक्षावद्भिः । किञ्च - 'जाव चत्तारि पंच' इत्यादिसूत्रमपि नरकोपपातातिरिक्तविशेषाभावमादाय परिमितभव जमालिजातीयदेवकिल्बिषिकविषयं जमालिसाहश्यप्रदर्शनायोपन्यस्तं न तु देवकिल्विषिकसामान्यविषयमिति सम्भाव्यते, अन्यथा “अत्थेगइआ अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरिअङ्कंति” [सन्त्येकेऽनादिकमनवदग्रं संसारकान्तारमनुपरिवर्तन्ते ] इत्यग्रिमसूत्राभिधानानुपपत्तेः, ततो 'अत्थेगइआ ' इत्यादिकमपरिमितभवाभिधायकं 'जाव चत्तारि' इत्यादिकं च परिमितभवाभिधायकमिति युक्तम्, भवति हि सामान्याभिधानस्याये कविशेषप्रदर्शने तदितरविशेषपरत्वम् । यथा 'ब्राह्मणा भोजयितव्याः कौडिन्यो न भोजयितव्य' इत्यत्र ब्राह्मणा भोजयितव्या इति वचनस्य कौण्डिन्येतरब्राह्मणभोजनविधिपरत्वमिति । यत्तु 'अत्थेगइआ' इत्यादिसूत्रमभव्यविशेषमधिकृत्याव सातव्यं, तद्वयञ्जकं तु अन्ते निर्वाणाभणनमेचेति परेणोच्यते । तदसत्, अन्ते निर्वाणाभणनादीदृशसूत्राणामभव्यविशेषविषयत्वे – “असंवुडे णं अणगारे आउअवजाओ सत्तकम्मपगडीओ सिढिलबंधूणबद्धाओ घणियबंधणबद्धाओ पकरेइ, हस्सकालठितिआओ दीह्कालठितिआओ पकरेह, मंदाणु
सटिप्पना ||खोपड़ वृचिः ॥ गाथा-४०
॥१५७॥