________________
धर्मपरीक्षा
॥१५६॥
म्बन्धिपदो पसन्दानमात्रस्य तात्पर्यैग्राहकत्वेनापेक्षितत्वाद् । अत एव क्वचिद्गणसम्बन्ध्याद्यन्तपदविशिष्टादिव क्वचिदन्त्य पदविशिष्टादपि यावच्छन्दान्तदुपस्थितिः । तथा हि- एगंतपंडिए णं भंते । मणुस्से किं णेरइआउं पकरेइ ४१ पुच्छा । गोअमा ! एगंतपंडिए मस्से आउ सिअ पकरे, सिअ णो पकरेइ । जइ पकरेइ णो णेरइआउअं पकरेह, णो तिरि०, णो मणु०, देवाउअं पकरेइ । णो णेरइआउअं किच्चा रइएस उववजह, णो तिरि०, णो मणु०, देवाउअं किच्चा देवेसु उववज्जइ १ ।। गोअमा ! एगंतपंडिअस्स णं मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, तं० अंतकिरिया चैव कप्पोववत्तिया चेव, से तेणद्वेणं गोअमा ! जाव देवाउअं किच्चा देवेसु उववज्जइत्ति ।। " [ एकान्तपंडितो भदन्त मनुष्यः किं नैरयिकायुः प्रकरोति ४ पृच्छा! गौतम! एकान्तपण्डितः आयुः स्यात्प्रकरोति स्यान्न प्रकरोति । यदि प्रकरोति नो नैरयिकायुः प्रकरोति, नो ति०, नो म०, देवायुः प्रकरोति ।। नो नैरयिकायुः कृत्वा नैरयिकेषूत्पद्यते नो ति०, नो म०, देवायुः कृत्वा देवेषूत्पद्यते ? गौतम ! एकान्तपण्डितस्य मनुष्यस्य केवले एव द्वे गती प्रज्ञप्ते तद्यथा अन्तक्रियैव कल्पोपपत्तिरेव अथ तेनार्थेन गौतम यावद्देवाः कृत्वा देवेषूत्पद्यते ] अत्र हि यावच्छन्दस्य न गणसम्बन्ध्याद्यन्त्यपदविशिष्टतयैव पूर्वप्रक्रान्तवाक्यार्थवाचकत्वं किन्तु स्वसम्बन्ध्यन्त्य पदोपसन्दानादेव, तद्वदिहापि चत्वारि पञ्चेत्यादिस्व सम्बन्धिपदोपसन्दानाद् यावच्छन्दस्य पूर्वप्रक्रान्तवाक्यार्थवाचकत्वेन किञ्चिद्वाधकमिति युक्तं पश्यामः । किञ्च सूत्रे द्योतकरचनारूपमपि यावत्पदं दृश्यते । यथा स्कन्दकाधिकारेश. २ उ० १ " भावओ णं सिद्धे अणता नाणपञ्जवा अणंता दंसणपञ्जवा जाव अणंता अगुरुअलहुअपजवा" [भावतः सिद्धे अनन्ता ज्ञानपर्यवा अनन्ता दर्शनपर्यवा यावदनन्ता अगुर्वलघुपर्थवाः] इत्यत्र । न ह्यत्र गणमध्यस्थस्यान्यस्यार्थस्य परामर्शो यावच्छन्देन कर्तुं शक्यते, यतोऽसौ गणस्तावदित्थमुपदर्शितः "भावओ णं जीवे अणंता नाणपज्जवा अणता दंसणपञ्जवा अणंता चरित्तपञ्जवा अणंता गुरुअलहुअपजवा अणंता अगुरु
सटिप्पणा ॥खोपच
वृतिः ॥
गाथा-४० ।। १५६ ।।