________________
धर्मपरीक्षा ॥१५॥
सटिप्पण ॥स्वोपड वृतिः ॥
गाथा-४०
॥१५॥
SEARCHES
भवति । तत्र देशनियामकत्वं-यावत्पश्चविंशतिर्योजनानि पत्तनं तावद्गन्तव्यमित्यादौ । कालनियामकत्वं च "जाव णं से जीवे सया समिअं तं तं भावं परिणमइ ताव च णं से जीवे आरभइ सारभइ समारभई" [यावत्स जीवः सदा समितं तं तं भावं परिणमति, तावच्च स जीव आरम्भते संरम्भते समारम्भते ।] इत्यादौ प्रसिद्धम् । विशेषणत्वविशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्थादिवदर्थशून्य एव स्यात् । तदिह यावच्छब्दो नानर्थको न वा विशेष्यभृतः, आद्यन्तशब्दाभ्यामविशिष्टत्वाद् ; विशेष्यभृतस्य च तस्य त्वाभ्यां विशिष्टस्यैव प्रयोगात् , किन्तु विशेषणभूतः; 'प्राक् पतितं विशेषणम्' इति वचनात् , स चात्राधिकारात्कालनियामक इति । यावत्कालं चतुष्पञ्चसूत्रे स स्थावरजातिषु नारकतिर्यग्योनिकमनुजदेवानां भवग्रहणानि यत्तदोर्नित्याभिसम्बन्धात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सर्वदुःखानामन्तं करिष्यन्तीति सामान्यसूत्रार्थः पर्यवस्यति । एवं सामान्यसूत्रोक्तानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छन्दवद् यावच्छब्दोऽप्यध्याहार्यः, तावन्तरेण वाक्यद्वयानुपपत्त्या कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिव विशेषसूत्रादप्यनन्तभवसिद्धिरिति चेत् , तदिदमसिद्धमसिद्धेन साधयतो महातार्किकत्वमायुष्मतः। यतो 'जाव चत्तारि' इत्यादावपि शसन्तचतुष्पश्चपदसमानाधिकरणभवग्रहणपदोत्तरद्वितीयाविभक्तरेव "कालाध्वनोाप्तौ" [सिद्धहैम०-२-२-४२] इत्यनुशासनात्कालनियमसिद्धौ न पुनस्तदभिधानाय यावच्छब्दप्रयोगः, व्यर्थपुनरुक्ततयोः प्रसङ्गात् , तस्मात्तदनुरोधेन तावच्छब्दस्य विशेषसूत्रे यावत्तावच्छन्दयोश्चाध्याहारकल्पनातिजघन्यैवेति । नन्वेवं "स्थितेगतिचिन्तनीया" इति यावच्छब्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत्, ततो देवलोकादायुःक्षयादिना च्युत्वेति पूर्वप्रक्रान्तपदसमुदायार्थ एवेत्यवेहि, अथैवं गणसम्बन्धाधन्तपदविशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत्, न, तादृशनियमे प्रमाणाभावात् , पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य स्वस