________________
धर्मपरीक्षा ॥१५४॥
सटिप्पणा ॥खोपज्ञ वृत्तिः ॥ गाथा-४० | ॥१५४॥
+
4
देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिंगच्छिहिंति ? कहिं उपवजिहिंति ? गोयमा! जाव चत्तारि पंच णेरइय-तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झहिंति, बुज्झिहिंति, जाव अंतं काहेति"त्ति | देिवकिल्बिषिका भदन्त ! तस्माद्देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं च्यवं च्युत्वा क्व गमिष्यन्ति ? क्व उत्पत्स्यन्ते ! गौतम ! यावच्चत्वारि पञ्च नैरयिक-तिर्यग्योनिक-मनुष्य-देवभवग्रहणानि संसारमनुपर्यठ्य ततः पश्चात्सेत्स्यन्ति, भोत्स्यन्ति यावदन्तं करिष्यन्तीति । ] त्वया सामान्यसूत्रमङ्गीक्रियते ततश्चोक्तस्य 'चत्तारि पंच' इत्यादिविशेषसूत्रस्य नारकगतिप्रतिषेधमात्रेणैव विशेषोऽभ्युपगम्यते न त्वधिकः कश्चिदपीति । अथास्त्वन्यत्र यथा तथा भगवत्यपेक्षया (श० ९ उ० ३३) तु जमालेरनन्ता एव भवा लभ्यन्ते, यतो यावच्छब्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः क्वचिद्विशेष्यत्वेन क्वचिच्च विशेषणत्वेन स्यात् , तत्र विशेष्यत्वेन प्रयुक्तो यावच्छन्द उक्तगणसम्बन्धिभ्यामाद्यन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां सङ्ग्राहको भवति । यथा-"जमाली णं भंते! अणगारे अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी? हेता गोयमा !" [जमालिभदन्तानगारोरसाहारो विरसाहारोऽन्ताहारः प्रान्ताहारो रूक्षाहारस्तुच्छाहारोरसजीवी विरसजीवी यावनुच्छजीवी उपशान्तजीवी प्रशान्तजीवी विविक्तजीवी? हन्त गौतम।] इत्यादिसामान्यसूत्रोक्तस्य गणस्याद्यन्तशब्दाभ्यां विशिष्टो 'गोअमा! जमाली णं अणगारे अरसाहारे जाव विवित्तजीवीति सूत्रोक्तवाक्यगतो यावच्छब्दस्तस्य च सर्वादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामपि पदार्थानां नानारूपाणां नानासंख्याकानां च सङ्ग्राहकत्वम् , एवमाद्यन्तशब्दयोरपि गणानुरोधेन भिन्नत्वमेव बोध्यं | न पुनर्यावच्छब्दोऽपि घटपटादितन्नियतपदार्थवाचक इति । विशेषणभृतस्तु यावच्छब्द उक्तपदवाच्यानामर्थानां देशकालादिनियामको
AAAAAAAAAX
-4-64