SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Sale सटिप्पणा खोपत्र वृतिः । गाथा-४. ॥१५३॥ धर्मपरीक्षा नियतानन्ततिर्यग्योनिकभवग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन?, स्वकल्पनाया महत्वध्यारोपस्य महदाशातनारूपत्वात् । एतेन "च्युत्वा ततः पञ्चकृत्वो, भ्रान्त्वा तिर्यग्नृनाकिषु॥ अवाप्तबोधिनिर्वाणं, जमालिः समवाप्स्यति ॥१०६॥” इति हैमवीरचरित्रीयपर्व ॥१५॥ १० (सर्ग ८) श्लोके पञ्चकृत्वशब्दः पञ्चवाराभिधायकः, स च तिर्यशब्देन योजितः सन् जमालिस्तिर्यग्योनौ पञ्चवारान् यास्थतीत्यर्थाभिधायकः सम्पन्नः, तथा च तिर्यग्योनौ बारपूर्तिमनुजादिगत्यन्तरभवान्तरप्राप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितैव स्याद् , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि सम्भवति। मनुजगतिवारपूर्तिस्तूत्कर्षतोऽपि सप्ताष्टभवैरेव स्याद् । देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैकेनैव भवेन वारपूर्तिः स्याद् इत्यादिकापि परस्य कल्पना दूरमपास्ता वेदितव्या । | 'पञ्चकृत्वः' इत्यस्य तिर्यक्शब्देनैव योजनाया असम्भवात् , द्वन्द्वसमासमर्यादया प्रत्येकमेव तदन्वयाद् भवग्रहणव्यक्त्यपेक्षस्य पञ्चवारत्वस्यानन्तवारभवग्रहणेषु जात्यपेक्षसङ्कोचेन समर्थयितुमशक्यत्वात् , तादृशशाब्दबोधस्याकाङ्क्ष विनाऽनुपपत्तेः । न ह्येकत्रानन्तवारभवग्रहणाभ्युपगमेऽप्येकवारभ्रमणमेव वक्तुं युक्तम् , स्थानभेदेन तत्स्थानावच्छिन्नाधिकृतक्रियाजन्यव्यापारोपहितकाललक्षणवारभेदाद्; निजातीयस्थानगमनानन्तरिततजातीयस्थानावच्छिन्नभ्रमणक्रियाजन्यभवग्रहणव्यापारोपहितो यावान् कालस्तावत एकवारत्वाभ्युपगमे च."तिर्यक्ष्वनन्तवारं भ्रान्तः” इति वदत एव व्याघातः । किञ्च एवं " बहवो जीवा नित्यनिगोदेष्वनन्तवारं जन्ममरणानि कुर्वन्ति" का इत्याद्यखिलप्रवचनवचनविलोपप्रसङ्ग इति न किञ्चिदेतत् । किञ्च-'च्युत्वा ततः पञ्चकृत्वः' इत्यादिश्लोकैकवाक्यतया हि 'चत्तारि पंच' इत्यादिभगवतीसूत्रं त्वया व्याख्यातुमिष्टं तथा च तत्र विजातीयभवान्तरिततया तिर्यक्षु पञ्चवारमेवानन्तभवग्रहणसिद्धिरिति सर्वेषाहैमपि प्रत्यनीकानामीदृशमेव संसौरपरिभ्रमण सिध्येत् न त्वनन्तान्यान्यभवान्तरितभवबहुलम् । यती "देवकिबिसिया णं भंते ! ताओ 45454545454545454
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy