SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१५२॥ येण यावत्क्व उत्पत्स्यते ? गौतम ! चत्वारि पञ्च तिर्यग्योनिक- मनुज देव भवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यति यावदन्तं करिष्यतीति ॥ ] इत्यत्र चत्वारो द्वीन्द्रियादयः पञ्च चैकेन्द्रियाः पृथिव्यादयस्ते च ते तिर्यग्योनिकाश्च तेषु देवमनुष्येषु भवग्रहणानि भ्रान्त्वा" इति व्याख्यानादत्र च तीर्थकराशातनाकृतोऽधिकृतत्वाद् भवानन्त्यलक्षणब हुत्वस्य स्पष्टत्वाद् भगवत्यपेक्षयैव जमालेरनन्तभवसिद्धिरिति परस्य मतं तदपूर्वबुद्धिपाटवमूलम् । एतादृशस्य गम्भीरार्थस्य वृत्तिकृताऽस्पष्टीकृतस्य खयमेव स्पष्टीकरणात् कथं चायं तपस्वी नाकलयत्येतावदपि, यदमू चतुष्पञ्चशब्दौ भवग्रहणसमानाधिकरणौ भिन्नविभक्त्यन्तौ व्यस्तौ समासान्तःपातिनः तिर्यग्योनिकशब्दस्य विशेषणतामापद्यते इति । न चेमौ न विभक्त्यन्ताविति वाच्यम्, विभक्त्य तमन्तरेण शसन्तचतुःशब्दनिष्पन्नस्य 'चत्तारि' इति शब्दस्य सर्वथाऽसिद्धेः । नाप्यत्रालुप् (क्) समासोऽस्तीति एतेन चतसृषु पञ्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तभवसिद्धिरित्यप्यपास्तम्, 'चत्तारि' इत्यत्र द्वितीयाबहुवचने सप्तमीबहुवचनार्थत्वस्य 'पञ्च' इत्यन तरसप्तमीबहुवचनलोपस्य समुच्चयार्थकचकाराध्याहारस्य च प्रसङ्गात् । किञ्च – चतुष्पञ्चशब्दयोः संख्यावाचकयोर्व्यक्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् । यदि च जमालेरनन्तः संसारः सूत्रे वक्तव्योऽभविष्यत् तदा 'तिरिय- मणुस्सदेवेसु अणताई भवरगहणाई संसारमणुपरिअट्टित्ता तओ पच्छा सिज्झिस्सइ' [ तिर्यग्मनुष्यदेवेष्वनन्तानि ग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यति ||] इत्यादि । अथवा "जहा गोसाले मंखलिपुत्ते तहेव णेरइअवजं संसारमणुपरिअट्टित्ता तओ पच्छा सिज्झिस्सइ " [ यथा गोशालो मंखलिपुत्रस्तथैव नैरयिकवर्ज संसारमनुपर्यय्य ततः पश्चात्सेत्स्यति ॥ ] इत्यादि भणनीयमभविष्यद् । अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आनन्त्यलाभ: १, नवभिरपि वारैः तत्पूर्तिसम्भवात् प्रतिव्यक्तिभ्रमणं च नाक्षरबलाल्लभ्यते बाधितं च सर्वतिर्यग्देवमनुजेषु तत् स्वेच्छामात्रेण सटिप्पणा ॥खोपच चिः ॥ गाथा-४० ॥१५२॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy