________________
धर्मपरीक्षा ॥१५०॥
सटिप्पणा | ॥खोपड़ वृतिः ।। गाथा-४. ॥१५॥
| त्यादि इत्येतद्वादशाङ्गं गणिपिटकम्, अतीतकालेऽनन्ता जीवा आज्ञया यथोक्ताज्ञापरिपालनाभावतो विराध्य, चतुरन्तसंसारकान्तारं विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं, अणुपरिअहिंसुत्ति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाज्ञा "आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेति" व्युत्पत्तः, ततः सा आज्ञा च त्रिधा तद्यथा-सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा च । सम्प्रत्यमूषामाज्ञानां विराधनाश्चिन्त्यन्ते । तत्र यदाभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना । सा च यथा जमालिप्रभृतीनाम् । यदात्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदाऽर्थाज्ञाविराध. ना । सा च गोष्ठामाहिलादीनामिवावसातव्या। यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमथ च विकुट्टयति तदोभयाज्ञाविराधना; सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेयेति । तथा आज्ञया सूत्राज्ञयाभिनिवेशतोऽन्यथापाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्त आसन् जमालिवद् । अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया विराधनया गोष्ठामाहिलवत्, उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादिलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्य नेकश्रमणवद्, इति तु हारिभद्यामेतवृत्तावुक्तमिति ॥" तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपत्तिरिति स्मर्तव्यम् । यत्तु आशातनाबहुलानां नियमनानन्तसंसारो भवतीति ज्ञापनार्थमेवेदं जमालिदृष्टान्तोपदर्शनं, चतुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधायको न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुष्टयाभिधायकः, न हि गतिचतुष्टयगमनमेवानन्तसंसारित्वाभिव्यञ्जकं, अन्वयव्यतिरेकाभ्यां व्यभिचारात् , तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसम्बद्धवाग्वादमात्रम् । चतुरन्तश
AKASARAIGARH