SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१४९॥ मरीचिदृष्टान्तवदुपलक्षणपर एवेत्यरघट्टघटीयन्त्रन्यायोपलक्षितसंसारचक्रवालपरिभ्रमणे साध्ये नाऽयुक्त इति कथमस्माद्भवतामिष्टसिद्धिः१, अन्यथाऽरघट्टघटीयन्त्रन्यायोऽत्र प्रकरणमहिना पुनः पुनञ्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिद्धयेत् । यत्तु यस्यैकेन्द्रियादिषु पुनः पुनरुत्पादेन द्राघीयसी संसारस्थितिस्तमुद्दिश्यैवायं न्याय: प्रवर्तते । तदुक्तम्- 'एयं पुण एवं खलु, अन्नाणपमायदोसओ पोयं । जं दीहा कायठिई, भणिआ एगिंदियाईणं ॥ १६ ॥ 'ति [ एतत्पुनरेवं खलु अज्ञानप्रमाददोपतो ज्ञेयम् । यद्दीर्घा काय स्थितिर्भणिता एकेन्द्रियादीनाम् ] ।। इति उपदेश पदे । व्याख्यायां च 'एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणास्वरघट्टघटीयन्त्रन्यायक्रमेण पुनः पुनरावर्तते । एतदपि कुतः सिद्धम् ? इत्याह यद् यस्मात्कारणाद्, दीर्घा द्राघीयसी, काय स्थितिः पुनः पुनर्मृत्वा तत्रैव काये उत्पादलक्षणा, भणिता प्रतिपादिता सिद्धान्ते, एकेन्द्रियादीनां जातीनामिति एकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ।।" तत एकेन्द्रियादिजात्याश्रितस्यैवारघट्टघटीयन्त्रन्यायस्याश्रयणान्न दृष्टान्तदाष्टन्तिकयोर्वैषम्यमिति । तदसत् । तत्र मनुजत्वगतिदौर्लभ्याधिकारादरघट्टघटीयन्त्रन्यायसामान्यस्यैकेन्द्रियादिजातिमात्रेण विशेषविवक्षायामप्यत्र सर्वज्ञमतविकोपकस्य चतुरशीतिलक्षजीवयोनिस ङकुलसंसारपरिभ्रमणाधिकारात्पुनः पुनर्गतिचतुष्टय भ्रमणाश्रितस्यैव विवक्षितत्वाद् । अत एव श्रुतविराधनातथातुर्गतिक संसारपरिभ्रमणं भवतीति स्फुटमेवान्यत्राभिहितम्, जमालिदृष्टान्तश्च तत्रोपन्यस्त इति । तथा हि- " इच्चेइयं दुवालसँग गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकंतारं अणुपरिअविंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चातुरंत संसारकंतारं अणुपरिअÎति २ । इच्चेइयं दुवालसँग गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंनसंसारकंतारं अणुपरिअट्टिस्संतित्ति” ॥ नन्दिसूत्रे - एतद्वृत्तिर्मलयगिरिकृता यथा - इचेइयमि सटिप्पणा ॥ खोप वृत्तिः ॥ गाथा-४० ॥१४९॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy