________________
धर्मपरीक्षा ॥ १४५ ॥
"कविला इत्थपि इयंपि” इत्यादिदेशनाकृद् । “देशनाचातुर्य (सौभाग्यं) चोत्सूत्रपरीहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयं ॥" (तट १ अंश २ तरंग ११) इत्यादि । यत्तु कश्चिदाह - उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्वचनं न केवलमुत्सूत्रं किन्तु त्सूत्रमिश्रमिति । तन्न, एवं सति "जो चैव भावलेसो, सो चेव भगवओ बहुमओ उ ॥ ३३ ॥ त्ति [यश्चैव भावलेशः स एव भगवतो बहुमतस्तु।] षष्ठपञ्चाशकवचनाद् ॥ य एव, भावलेशो भगवद्बहुमानरूपो द्रव्यस्तवाद् भवति, स एव भगवतो मुख्यवृस्याऽनुमत इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवद्बहुमतत्वापत्तेः; तस्माल्लेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यं । स्यादयमभिप्रायः - धर्मस्यापि ह्यशुभानुबन्धादिति, आह - " धम्मो वि सबलओ होइ " [धर्मोऽपि शबलो भवति ।] | इत्यादिना शास्त्र शबलत्वमुच्यते शबलत्वं च मिश्रत्वमेव मरीचिवचनस्यापि कुदर्शनप्रवृत्त्याऽशुभानुबन्धान्मिश्रत्वमविरूद्धं, कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुत्वे नावश्यकचूर्णायुक्तत्वादिति । सोऽयं दुरभिप्रायः, यतः इत्थं सति फलत एवेदमुत्सूत्रं स्याद् न तु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रं, उत्सूत्रत्वादेव च संसारहेतुरिति, यत्किश्चिदेतत् । अत एव श्राद्धप्रतिक्रमणसूत्र चूर्णावपि "पडिसिद्धाणं करणे " इति व्याख्याने विपरीतप्ररूपणा विविच्य तत्कृताशुभफलभागित्वेन मरीचिरेव दृष्टान्ततयोपदर्शितः । तथा हि"विवरीअपरूवणाए य"त्ति, चशब्दः पूर्वापेक्षया "विवरीअं वितहं उस्सुतं भण्णइ, परूवणा पनवणा देसनत्ति णे पजाया" [विपरीतं वितथं उत्सूत्रं भण्यते, प्ररूपणा प्रज्ञापना देशनेति एषां पर्यायाः ।] विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा तस्यां सत्यां प्रतिमणं भवति । सा चैवरूपा - "सिअवायमए समए, परूवणेगंतवायमहिगिच्च ॥ उस्सग्ग-ववायाइसु, कुग्गहरूवा मुणेयव्वा ॥ १ ॥ पिंड असोहयंतो, अचरित्ती इत्थ संसओ णत्थि । चारितंमि असंते, सव्वा दिक्खा निरत्थिया ||२|| एवं उस्सग्गमेव केवलं पण्ण
सटिप्पणा
॥ खोपड
चिः ॥ गाथा-४० ॥१४५॥