________________
धर्मपरीक्षा ॥ १४४ ॥
नाऽनन्तसंसारहेतुश्च सावद्याचार्य - मरीचि - जमालि-कूलवालकादेवि । यतः — उस्सुतवासगाणं, वोहिणासो अनंतसंसारो ॥ पाणच्चएवि धीरा, उस्सुत्तं ता ण भासति ॥ १ ॥ तित्थयरपवयणसुअं, आयरिअं गणहरं महिड्डीयं ।" इत्यादि ।। [उत्सूत्र भाषकानां बोधिनाशोऽनन्तसंसारः । प्राणत्यागेऽपि धीरा उत्सूत्रं ततो न भाषन्ते । तीर्थकरं प्रवचनं श्रुतमाचार्य गणधरं महर्द्धिकञ्च । ] तथा योगशास्त्रवृत्तावप्युक्तम् — "भगवानपि हि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटा कोटी यावद्भवे भ्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिरिति । तथा तत्रैव — “ अल्पादपि मृपावादाद् " इत्यस्य व्याख्यायाम्, अल्पस्यापि मृषावादस्य महानर्थहेतुत्वे संमतिवचनमिदमुपदर्शितम् — अहह सयलन्नपावा, वितहपन्नवणमणुमवि दुरंतं ॥ जं मरीइभवउवज्जियदुक्कय अवसेसलेसवसा ||१|| सुरथुअगुणो वि तित्थं-करो वि तिहुअणअतुल्लमल्लो वि ।। गोवाईहिं वि बहुसो, कयत्थिओ तिजयपहू तं सि ॥ २ ॥ त्ति | गोवंभणभूणंतगावि, केइ इह दढप्पहाराई | बहुपावा वि य सिद्धा, सिद्धा किर तंमि चैव भवे || ३ || "त्ति । [ अहह सकलान्यपापाद् वितथप्रज्ञापनमण्वपि दुरन्तम् । | यन्मरीचिभवोपार्जितदुष्कृतावशेषलेशवशात् ॥ सुरस्तुतगुणोऽपि तीर्थंकरोऽपि त्रिभुवने अतुल्यमल्लोऽपि गोपादिभिरपि बहुशः कदर्थितस्त्रिजगत्प्रभुस्त्वमसि ।। गो-ब्राह्मण-भ्रूणान्तका अपि केचिदिह दृढप्रहार्यादयः । बहुपापा अपि च सिद्धाः सिद्धाः किल तस्मिन्नेव भवे ।।] तथोपदेश रत्नाकरेऽपि प्रोक्तम् - " तथा केषाञ्चिदेशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, साऽपि पुरनिर्द्धमनजलतुल्या, अमेध्यलेशेन निर्मलजलमिवोत्सूत्र लेशप्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वाद् । यदागमः- “दुब्भासिएण इक्केण" इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तम् - "केचिद् गुरव आलम्बनं विनैव सततं बहुतरप्रमादसेवितया कुचारित्रिणः देशनायामप्यचातुर्यभृतश्च यथा तथाविधाः पार्श्वस्थादयः, यथा वा मरीचिः
יין
सटिप्पणा
॥ खोपज्ञ चिः ॥
गाथा-४० ॥ १४४ ॥