SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१४२॥ सटिप्पणा ॥खोपक्ष | वृति ॥ माथा-. ॥१४॥ ३ उपदेशमाला १०६ [स्फुटप्रकटमकथयन् यथास्थितं बोधिलाभमुपहन्ति । यथा भगवतो विशालो जरामरणमहोदधिरासीत् ॥१॥]" किश्च-इहर्ति देशविरत्यभिप्रायेण वोक्तमिति कुतो निर्णीतम् । उपदेशमालावृत्तौ "कपिल ! इहान्यत्रापीति" मत्सम्बन्धिनि साधुसम्बन्धिनि चानुष्ठाने धर्मोऽस्तीति भणनात् । न च तत्र 'साधुसम्बन्धिनि' इति भणनेन 'मत्सम्बन्धिनि देशविरत्यनुष्ठाने धर्मोऽस्ति' इत्वेवाभिप्राय इति वाच्यम्॥"जिनधर्मालसं ज्ञात्वा, शिष्यमिच्छन् स तं जगौमार्गे जैनेऽपि धर्मोऽस्ति,मम मार्गेऽपि विद्यते॥१॥"इति हैमवीरचरित्रवचनात्वमार्गेऽपि तेन धर्माभिधानात् । स्वमार्गश्च तस्य स्वपरिगृहीतलिङ्गाचारलक्षणं कापिलदर्शनमेव । तत्र च मार्गे नियतकारणताविशेषसम्बन्धेन धर्ममात्रमेव नास्ति कुतो देशविरत्यनुष्ठानम् ? इत्युत्सूत्रमेवैतदिति । अनियमाभिप्रायेण त्वस्योत्सूत्रपरिहारेऽन्यलिङ्गादिसिद्धाभ्युपगमाचारित्रादेरपि तत्राभ्युपगमापत्तिरिति न किञ्चिदेतत् । एतेन कविला इत्थंपित्ति अपिशब्दस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे 'इहयंपि'त्ति खल्पस्त्वत्रापि विद्यते । स ह्येवमाकर्ण्य तत्सकाश एव प्रबजितः । मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तित इति ज्ञानसागरसूरिवचनमपि व्याख्यातम्॥तत्रापि मार्गभेदाभिप्रायेणैव धर्मभेदाभिधानाद् । न हि | साधुश्रावकयोर्मार्गभेदेन धर्मभेदः सम्भवदुक्तिकोऽपीति विचारणीयम् । यत्तु मरीचिवचनमिदमावश्यकनियुक्तौ'दुर्भाषितमेवोक्तंन तूत्सूत्रमिति' नेदमुत्सूत्रं वक्तव्यमिति केनचिदुच्यते । तदसत् ,दुर्भाषितपदस्यानागमिकार्थोपदेशे रूढत्वात् ,तदुत्सूत्रताया व्यक्तत्वात् । तदुक्तं१२ पञ्चाशकसूत्रवृत्त्योः -"संविग्गोणुवएसं, ण देइ दुब्भासियं कडुविवागं । जाणतो तंमि तहा, अतहकारो उ मिच्छत्तं ॥१७॥" व्याख्या-संविग्नो भवभीरुर्गुरुः, अनुपदेशं नञः कुत्सितार्थत्वेन कुत्सितोपदेशमागमबाधितार्थानुशासनं, न ददाति-परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किम्भूतः सन् ? इत्याह-दुर्भाषितमनागमिकार्थोपदेशं, केटुविपाकं दारुणफलं दुरन्तसंसा AAAAAAACK
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy