SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१४॥ | सटिप्पणा | ॥खोपड़ वृत्तिः ॥ गाथा-४. ॥१४॥ लेनोत्सूत्रेण, सर्वस्याप्यसत्याभिप्रायस्य धयंशे सत्यत्वात् " सर्व ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः" इति शास्त्रीयप्रवादप्रसिद्धेः। तर्हि प्रकारभेदादस्तु मिश्रत्वम् ,एकत्रैव वचने सत्यासत्यबोधकत्वावच्छिन्नप्रकारभेदोपरक्ताभिप्रायोपश्लेषादुत्सूत्रमिश्रत्वसम्भवा| दिति चेत् । न, सूत्रकथनांशेऽभिप्रायस्य प्राबल्येऽनुत्सूत्रस्योत्सूत्रकथनांशे तत्प्राबल्ये चोत्सूत्रस्यैव सम्भवान्मिथ्याव्यपदेशेन मिश्रस्या नवकाशाद् । अन्यथा 'क्रियमाणं न कृतम्' इत्यंशेऽसत्यं प्रतिपादयामि इतरांशे च सत्यमिति मिथ्याव्यपदेशेन वदतो जमाल्यनुसारिणोऽपि नोत्सूत्रं स्यात् किन्तूत्सूत्रमिश्रमिति महदसमञ्जसम् । अपि च-इदं मरीचिवचनमुत्सूत्रमिश्रमिति वदता मूलत एव जैनी प्रक्रिया न ज्ञाता । यतः सूत्रोत्सूत्रव्यवस्था तावच्छ्रुतभावभाषामाश्रित्य क्रियते । सा च सत्यासत्यानुभयरूपत्वात् त्रिविधैव दशवकालिकनियुक्त्यादिसिद्धान्तप्रतिपादिता । पराभिप्रायेण तु मिश्ररूपाया अपि तस्याः सिद्धौ भगवद्भद्रबाहुक्तविभागव्याघातप्रप्रसङ्ग इति न किश्चिदेतत् । इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेवेदं वचनं कपिलापेक्षया च विपर्यासबुद्धिजनकत्वज्ञानपीत्थमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथञ्चिदनाभोगहेतुकमुत्सूत्रमिति वदतो माता च मे वन्ध्या चेति न्यायापात इति द्रष्टव्यम् । किश्च- तस्योत्सूत्राभोगो नासीदित्यपि दुःश्रद्धानम् , व्युत्पन्नस्य तस्य तादृशास्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् । न च साधुभक्तस्य तस्य तथोत्सूत्रभाषणमसम्भव्येवेति शङ्कनीयम् , कर्मपरिणतेविचित्रत्वाद् । अस्पष्टत्वं च तत्राभिमतानभिमतविधिनिषेधावधारणाऽक्षमत्वलक्षणं न, उत्सूत्राभोगाभावात् किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसङ्क्केशात् । अत एव स्फुटा प्ररूपणमप्यस्यास्पष्टताख्यजातिविशेषशालिन्युत्सूत्रप्ररूपण एव पर्यवस्यति । तदुक्तं पाक्षिकसप्ततिकावृत्ती-"उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । यथोक्तम् - "फुडपागडमकहतो, जहडिय बोहिलाभमुवहणइ । जह भगवओ विसालो, जरामरणमहोअही आसि ॥"त्ति।
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy