________________
धर्मपरीक्षा
४ार्थवाचकत्वेन श्रोतुः कपिलस्य परिव्राजकदर्शनेऽपि किश्चिद्धर्मोस्तीत्यवबोधात् , अन्यथा कपिलः परिव्राजकवेषं नाग्रहीष्यत् , तस्य
धर्मचिकीर्षचैव तद्वेषोपादानात् , राजपुत्रत्वेनान्यकारणासम्भवात् , ततश्च कापिलीयदर्शनप्रवृत्तिः । सा च कपिलस्य मरीचेरन्येषां च महानर्थकारणम् , कुप्रवचनरूपत्वात् । तदेवम्भूतं वचनमुत्सूत्रमिश्रं, मरीच्यपेक्षया सूत्रत्वेऽपि कपिलापेक्षया उत्सूत्रत्वात् । मम पार्श्वे मनाम् धर्मोऽस्तीति देशविरतस्य मरीचेरभिप्रायान्मरीच्यपेक्षया हि सत्यमेवैतत् , परिव्राजकदर्शने मनाग धर्मोऽस्तीति कपिलस्य बुद्धिजनकत्वेन कपिलापेक्षयाचासत्यरूपमेवेति।।" तदसत्, उत्सूत्रकथनाभिप्रायेण प्रवृत्तस्यास्य वचनस्य मायानिश्रितासत्यरूपस्योत्सूत्रत्वाद् । आपेक्षिकसत्यासत्यभावाभ्यामुत्सूत्रमिश्रितत्वाभ्युपगमे च भगवद्वचनस्यापि तथात्वप्रसङ्गात् । तदपि हि भगवतस्तद्भक्तानां चापेक्षया सत्यं पाखण्डिनां चापेक्षयाऽसत्यमिति । अथ भगवता वचनं परस्यासत्यबोधाभिप्रायेण न प्रयुक्तमिति नोत्सूत्रम् , मरीचिना तु प्रकृतवचनं कपिलस्यासत्यबोधाभिप्रायेणैव प्रयुक्तम् । स ह्येवं ज्ञातवान्-पतन्मद्वचनं कपिलस्य परिव्राजकदर्शने धर्मबुद्धिजनकं भविष्यतीत्येवमेवार्य बोधनीय इति, कथमन्यथाऽस्य परित्राजकवेषमयमदास्यद्? इति महद्वैषम्यमिति चेत् । हन्त तहिं उत्सूत्रमेवेदं प्राप्तमिति गतमुत्सूत्रमिश्रेण । द्रव्यतोऽसत्यस्य किशलयपाण्डुपत्राद्युल्लापरूपसूत्रवचनस्येव द्रव्यतः सत्यस्य प्रकृतवचनस्योत्सूत्ररूपस्यापि मिश्रत्वायोगात् , शुद्धाशुद्धद्रव्यभावाभ्यां मिश्रत्वाभ्युपगमे जिनपूजादावपि मिश्रपक्षाभ्युपगमप्रसङ्गाच्च । अथ देशविरत्यभिप्रायेण मदपेक्षया मया सत्यं वक्तव्यम् , परिव्राजकवेषाभिप्रायेण कपिलापेक्षया त्व(चा)सत्यमित्येवं भावभेदादेवेदमुत्सूत्रमिश्रमिति चेत् , न, एतादृशभावयोरेकदाऽसम्भवात् , उपयोगद्वययोगपद्याभ्युपगमस्यापसिद्धान्तत्वाद् । एक एवायं समूहालम्बनोपयोग इति चेत् , तर्हि केन कस्य मिश्रत्वम् । नियमतः पदार्थद्वयापेक्षयैतदिति विषयभेदादेकत्रापि मिश्रत्वमिति चेत् , तर्हि गतं केव
सटिप्पणा ॥खोपत्र वृतिः ॥ गाथा-४. ॥१४॥
345454305
+LOAUGAT