________________
धर्मपरीक्षा ॥१३९॥
सटिप्पणा स्वोपड
वृतिः ॥ * गाथा-४०
॥१३९॥
च श्रेणिकस्य पेढालपुत्रस्य च सत्यकः । अनुत्तरा दर्शनसम्पदासीद्विना चारित्रेणाधरां गतिं गता।।) इत्यादिना सम्यक्त्वस्यापि तत्प्रति पादनादिति द्रष्टव्यम् ॥३९॥ तदेवमन्येषामपि मार्गानुसारिगुणानामनुमोद्यत्वसिद्धौ ‘सम्यग्दृशाज्येषां गुणा नानुमोद्या एवं' इत्युत्सूत्रं त्यक्तव्यम् , स्तोकस्याप्युत्सूत्रस्य महानर्थहेतुत्वादित्युपदेशमाहता उस्सुत्तं मोत्तुं, अणुमोइज्जा गुणे उ सव्वेसि ॥ जं थोवा वि तओ (लह), लहेज दुख्खं मरीइव्व ॥४०॥
[तत उत्सूत्रं मुक्त्वाऽनुमोदेत गुणान् सर्वेषां तु । यत्स्तोकादपि ततः (लघु) लभेत दुःख मरीचिरिव ॥ ४० ॥]
ता उस्सुत्तंति । तत् तस्मात्कारणात , उत्सूत्रं मुक्त्वा , तुरेवकारार्थः, स च सर्वेषाम् इत्यनन्तरं योज्यः सर्वेषामेव गुणाननुमोदेत; भव्य इति शेषः । यद्यस्मात् , स्तोकादपि ततः उत्सूत्रात् , मरीचिरिब दुःखं लभेत । मरीचिहि "कविला इत्थंपि इहयंपि" ( कपिल ! इत्थमपीहापि । ) इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान् , ततो यो
मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रवादी तस्य किं वाच्यमिति भावः।। अत्र केचिदाहु:-"मरिचिरुत्सूत्राद् दुःख लब्धवानिति वयं Pान सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात् , तेन चासंख्येयसंसारार्जनात् , तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं, नतूत्सूत्र8| मिति प्रतिपत्तव्यम् । तथा हि-साधुधर्मे द्विरुक्तेऽपि साधुधर्मानभिमुखेन कपिलेन 'युष्मत्समीपे कश्चिद्धर्मोऽस्तीति' पृष्टे, आवश्यक.
त्यभिप्रायेण तु 'भवद्दर्शने किञ्चिद्धर्मोस्तीति' पृष्टे, 'अहो! अयं प्रचुरकर्मा द्विरुक्तोऽपि साधुधर्मानभिमुखो मदुचितः सहायः संवृत्त' इति विचिन्त्य मम देशविरतिधर्मोस्तीत्यभिप्रायेण मनागिहाप्यस्तीति मरीचिरक्तवान् । तत्र मरीचेर्यदि देशविरतिविमर्शना नाभविध्यत् तर्हि मनागिति नाभणिष्यम् । एतद्वचनं परिव्राजकवेषे सति परिव्राजकदर्शने किञ्चिद्धर्मव्यबस्थापकं सम्पन्नम् । इह शब्दस्यास्पष्टा
CINESCORCHECIAL