________________
धर्मपरीक्षा
4
सटिप्पणां ॥ स्वोपज्ञ दृत्तिः ॥ गाथा-२
%
॥३॥
%
निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः। अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभीरवो नाहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे
जं च ण सुत्ते विहियं णय पडिसिद्धं जणमि चिररूढं। समइविगप्पिअदोसा.तं पि ण दसति गीयत्था॥१॥" [१ यच्च न सूत्रे विहितं न च प्रतिषिद्धं जने चिररुढम् । स्वमतिबिकल्पितदोषास्तदपि न दूषयन्ति गीतार्थाः ॥१॥]
ततश्च माध्यस्थ्यमेव धर्मपरीक्षायां प्रकृष्टं (प्रधान) कारणमिति फलितम् ॥ १॥ एतदेव आहसो धम्मो जो जीवं, धारेइ भवण्णवे निवडमाणं । तस्स परिक्खामूलं, मज्झस्थत्तं चिय जिणुतं ॥ २॥ [स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् । तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् ॥२॥]
[वृ०] सो धम्मोत्ति । यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भदानेन धारयति,स धर्मो भगवत्प्रणीतः श्रुतचा. रित्रलक्षणः, तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम्, अज्ञातविषये माध्यस्थ्यादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्वोपलम्भप्रसिद्धेः । ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव । तदुक्तम्-"सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते ।। माध्यख्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः ॥ १॥ इति कथं तद्भवद्भिःपरीक्षानुकूलमुच्यते? इति चेत् । सत्यम्, प्रतीयमानस्फुष्टातिशयशालिपरविप्रतिपत्तिविषयपक्षद्वयान्यतरनिर्भीरणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि टि.] संख्याविशेषो वा अनिवा-सदा ख्य जिनेश्वरस्य पादः चरणं तदेव पद्म कमलं तस्य द्वयं तस्मिन्न हसाना तदात्यपक्षिणा आटि: पंक्तिः तस्याः श्रियं शोभा आदधाति प्रामोति, ननु सर्वेषामपि प्राणिनां दोषाश्चितत्वेन दृष्टत्वादस्यापि तथास्वं स्यादिति चेत्, न, इत्याह न चेति, दोपैः प्रसिद्ध रागद्वे
%
%A6