________________
4
धर्मपरीक्षा ॥२॥
*॥ खोपज्ञ
त्तिः ॥ | गाथा-१
॥२॥
| नत्वा जिनान् गणधरान, गिरं जैनी गुरूनपि । स्वोपज्ञां विधिवद् धर्म-परीक्षा विवृणोम्यहम् ॥ ३ ॥ ___इह हि सर्वज्ञोपज्ञे प्रवचने प्रविततनयभङ्गप्रमाणगम्भीरे परममाध्यस्थ्यपवित्रितैः श्रीसिद्धसेन-हरिभद्रप्रभृतिमूरिभिर्विशदीकृतेऽपि दुःषमादोषानुभावात्केषांचिद् दुर्विदग्धोपदेशविप्रतारितानां भूयः शङ्कोदयः प्रादुर्भवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुं | धर्मपरीक्षानामायं ग्रन्थः प्रारभ्यते, तस्य चेयमादिगाथा
पणमिय पासजिणिंद, धम्मपरिक्खाविहिं पवक्खामि । गुरुपरिवाडीसुझं, आगमजुत्तीहिं अविरुद्धं ॥ १॥ • [प्रणम्य पार्श्वजिनेन्द्र, धर्मपरीक्षाविधिं प्रवक्ष्ये । गुरुपरिपाटीशुद्धम्, आगमयुक्तिभ्यामविरुद्धम् ॥ १ ॥ | [३०] पणमियति । प्रणम्य-प्रकर्षण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा, पार्श्वजिनेन्द्रम्, अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाचारपरिपालनार्थ च मङ्गलमाचरितम् । धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्थंभूतो वेति विशेषनिर्धारणप्रकार, प्रवक्ष्ये । प्रेक्षावत्मवृत्युपयोगिविषयाभिधानप्रतिज्ञेयम् । प्रयोजनादयस्तु सामर्थ्यगम्याः धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । किंभूतं धर्मपरीक्षाविधिम्?गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम्, तथा, आगमयुक्तिभ्यां-सिद्धान्ततर्काभ्याम्, अविरुद्धमबाधितार्थम् । एतेनाभिनिवेशमूलकवकपोलकल्पनाशङ्का परिहृता भवति । इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनाव । यावानेव ह्यर्थः सुविनिश्चितस्तावानेवानेन [टि०] तु वचनातिशयो दर्शित इति, ज्ञानमित्यादिना च ज्ञानातिशयो दर्शित इति शास्त्रादौ हि भगवतश्चत्वारोऽतिशया आवर्णनीया इति वाचकवर्या अपि तानाविश्चक्रिरे । अथ तस्यास्वेवं इन्द्राणां-इमा ऐन्द्रयः या श्रेणयः क्रमबद्धपंक्तयः तासां किरीटानां मुकुटानां कोटि:-अग्रभागः शतगुणलक्षप्रमाणः
43*CREASE