SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१३७॥ सटिप्पणा खोपड़ वृत्तिः ।। गाथा-३८ ॥१३७॥ ॐUAR 33+15+SAHAK [परपाखण्डिप्रशंसा, इह खलु कोऽपि नैवमतिचारः ॥ स तन्मतगुणमोहाद् , अनवस्थया वा भवेद् ॥ ३८ ॥] परपाखंडिपसंमत्ति । एवमुक्तप्रकारेण, इह मार्गानुसारिगुणानुमोदने, परपाखण्डिप्रशंसा तिचारः, कोऽपि न स्यात् । यतः स परपाखण्डिप्रशंसातिचारः तन्मताः परपाखण्डिमात्रसंमता ये गुणा अग्निहोत्रपञ्चाग्निसाधनकष्टादयस्तेषु मोहोज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमिथ्याज्ञानलक्षणं ततो भवेत् , 'परपाखण्डिनः परदर्शनिनः तेषां प्रशंसा' इत्यत्र व्युत्पत्तावर्थात् पाखण्डताऽवच्छेदकधर्मप्रशंसाया एवातिचारत्वलाभाद् । यथा हि 'प्रमादिनो न प्रशंसनीयाः' इत्यत्र प्रमादिनां प्रमादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते, न त्वविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिनापि, 'तथा पाखण्डिनो न प्रशंसनीयाः' इत्यत्रापि पाखण्डिनां पाखण्डतावच्छेदकधर्मेणैवाप्रशंसनीयत्वं लभ्यते, नतु मार्गानुसारिणां क्षमादिगुणेनापि । अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्डतावच्छेदकत्वमेवेति तद्रूपेण प्रशंसायामप्यतिचार एव । अत एवोग्रकष्टकारिणामप्याज्ञोल्लङ्घनवृत्तीनां प्रशंसाया दोषावहत्वमुक्तं तेसिं बहुमाणेणं, उम्मग्गणुमोअणा अणिट्ठफला । तम्हा तित्थयराणा-ठिएसु जुत्तोत्थ बहुमाणो॥३९॥पंचाशक ११९ ॥(तेषां बहुमानेनोन्मार्गानुमोदनाऽनिष्टफला। वस्मात्तीर्थकराज्ञास्थितेषु युक्तोत्र बहुमानः ॥) इत्यादिना श्रीहरिभद्रसूरिभिः । वा अथवा, अनवस्थया मार्गभ्रंशलक्षणया, | अतिचारो भवेद् । मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकैकासमञ्जसाचाराद् , एवं मार्गोच्छेदापत्तेः । अत एवाभिमुख मुग्धपर्षद्गतस्य परपाखण्डिसम्बन्धिकष्टप्रशंसादिना महानिशीथे परमाशर्मिकमध्योत्पत्तिरुक्ता । तथा च तत्पाठः “जे भिक्खू वा भिक्खुणी वा परपासंडीणं पसंसं करेजा, जे यावि णं णिण्हवाणं पसंसं करेजा, जेणं णिण्हवाणं आययणं ट्र पविसेजा, जे णं णिण्हवाणं गंथ सत्थ-पय-क्खरं वा परूवेजा, जे णं णिण्हवाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy