________________
परीक्षा ॥३६॥
सटिप्पण ॥ खोपत्र वृतिः ॥ माथा-३० ॥१३॥
तथेति समुच्चये, बुद्धिमानपि युक्तायुक्तविवेचनचतुरशेमुषीपरिगतोऽपि न केवलधर्मसारः सदा भवति, प्रायेण बाहुल्येन, जायते जीवः। महतामप्यनाभोगसम्भवेन कदाचित्कृत्येवबुद्धिमत्त्वमपि कस्यचित्स्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह-तत्फलं बुद्धि मत्त्वफलं स्वर्गापवर्गादिप्राप्तिलक्षणम्, अपेक्ष्यान्ये पुनराचार्याः, नियमोऽवश्यंभावो बुद्धिमत्त्वस्य अनाभोगेऽपि गुणस्थानपरिणतौ सत्यामिति ब्रुवते । अयमभिप्रायः–'सम्पन्ननिव्रणव्रतपरिणामाः प्राणिनो जिनभणितमिदमिति श्रद्दधानाः क्वचिदर्थेऽनाभोगबहुलतया प्रज्ञापकदोषाद् वितथश्रद्धानवन्तोऽपि न सम्यक्त्वादिगुणभङ्गभाजो जायन्ते । यथोक्तम् ( उत्तराध्ययननियुक्ति) “सम्मघवी जीवो, उवइ8 पवयणं तु सद्दहह ॥ सद्दहइ असम्भावं, अयाणमाणो गुरुणिओगा ॥१६३॥" [सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्दधाति । श्रद्दधात्यसद्भावमजानन् गुरुनियोगात् ॥] इति ॥ बुद्धिमत्त्वे सति ते व्रतपरिणामफलमविकलमुपलभन्त एवेति । यथा च सम्यग्दृष्टयादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमत्त्वसामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वगुणस्थानावान्तरपरिणति| तारतम्येपि । अत एवापुनर्बन्धकादीनामादित एवारभ्यानाभोगतोऽपि 'सदन्धन्यायेन' मार्गगमनमेवेत्युपदिशन्त्यध्यात्मचिन्तकाः । यत्तु मिथ्यादृशां सकामनिर्जरासम्भवे सम्यग्दृष्टिमिथ्यादृष्टयोरविशेषप्रसङ्ग इति केनचिदुच्यते, तदसत् । एवं सति मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानां शुक्ललेश्यावत्त्वेनाविशेषप्रसङ्गात् । अवान्तरविशेषान्न तदविशेष इति चेत् ? । सोऽयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जराऽपेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्रं भावनीयम् ।। ३७ ॥
नन्वेवं मिथ्यादृशां गुणानुमोदनेन परपाखण्डिप्रशंसालक्षणः सम्यक्त्वातिचारः स्यादित्याशङ्कां परिहर्तुमाह| परपाखंडिपसंसा, इहई खलु कोवि णेवमइआरो ॥ सो तम्मयगुणमोहा, अणवत्थाए व होजाहि ॥