________________
धर्मपरीक्षा ॥१३४॥
%E55
सटिप्पणा
खोपड़ पूचिः ॥ गाथा-३७ ॥१३४॥
| भिलाषत्वेऽपि मिथ्यादृशां प्रबलासद्ग्रहदोषवतां तदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात् , तदभावेऽपि च स्वाभाविकानुकम्पादिगुणवतां मेघकुमारजीवहस्त्यादीनां फलतः साबाधितेति विभावनीयम् । युक्तं चैतत् पश्चस्वनुष्ठानेषु नरेत्वमृतानुष्ठानयोरिव सकामनिर्जराङ्गत्वव्यवस्थितेः। अत एवानुचितानुष्ठानमकामनिर्जराङ्गमुक्तम् । तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् । “अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति" अ०६सू०१५।। अननुष्ठानमनुष्ठानमेव न भवति, 'अन्यद्' विलक्षणमुचितानुष्ठानाद् । तर्हि कीदृशं तती इत्याह-'अकामनिर्जराङ्गम्'अकामस्य निरभिलाषस्य तथाविधबलीवर्दादेखि या निजरा कर्मक्षपणा तस्या अङ्ग निमित्तम् , न तु मुक्तिफलाया निर्जरायाः, कुतः? इत्याह-'उक्तविपर्ययाद्' उदग्रविवेकाभावेन रत्नत्रयाराधनाऽभावादिति।। उचितानुष्ठानं च साध्वादीनां यथा शुद्धचारित्रपालनादिकं, तथा मार्गानुसारिणां मिथ्याशामपि सामान्यतः सदाचारादिकम् , भूमिकाभेदेनौचित्यव्यवस्थानात् , ततोऽधिकारिभेदेन यद् यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण वा निर्वाणफलमिति सकामनिर्जराङ्गम् । यच्चानुचितं तदनुचितप्रतिपत्तौ नियमादसदभिनिवेशोज्यत्रानाभोगमात्रादिति ॥” वचनात् अभिनिवेशसहकृतत्वेन है विपरीतफलमिति तत्त्वतोऽकामनिर्जराङ्गमिति मन्तव्यम् । इत्थं च "तओ भणियं नाइलेण, जहा मा वच्छ ! तुम एतेणं परिओसमुवयासु। जहा अहयं आसवारेण परिमुसिओ अकामणिजराए वि किंचि कम्मक्खओ हवइ किं पुण जं बालतवेणं । ता एते बालतवस्सियोदट्टव्वे, जओ णं किञ्चि उस्सुत्तुम्मग्गयारित्तमेएसि य दीसह" । [ततो भणितं नागिलेन, यथा मा वत्स ! त्वमेतेन परितोषमुपयाहि । यथाऽहमश्ववारेण परिमुषितोऽकामनिर्जरयापि किञ्चित्कर्मक्षयो भवति किं पुनर्यद् बालतपसा ? । तस्मादेते बालतपस्विनो द्रष्टव्याः। यतः खलु किश्चिदुत्सूत्रोन्मार्गचारित्वमेतेषां च दृश्यते ।] इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकामनिर्जराजन्यात्कर्मक्षयाद्
*ECAUSPEECAUCHHUSICR
C
-%A
A CK