________________
धर्मपरीक्षा
K
॥१३२॥
+
AREAM
सटिप्पणा ॥खोपड़
चिः ॥ | गाथा-३७ ॥१३२॥
+
अन्यथा देशविरतानामविरतसम्यग्दृशां चाकामनिर्जरैव प्रामोति, तेषामपि यमिशब्दाव्यपदेश्यत्वेन विशेषाभावाद् । न चैतदिष्टम् , तस्मादेतद्वचनमुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोषः। किश्च-ज्ञेया सकामेत्यादिश्लोकव्याख्यानेऽप्यकामनिर्जरास्वामिनो निरभिलाषं निरभिप्रायं च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपस्व्यादयो मिथ्यादृशोऽपि । तथा हि-"सकामा निर्जराऽभिलाषवता(ती), यमिनां यतीनां विज्ञेया। ते हि कर्मक्षयार्थ तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जरा, अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम् । तथाहि-एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्णवर्षजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसद्वेद्य कर्मानुभूय नीरसं तत्स्वप्रदेशेभ्यः परिशाटयन्ति, विकलेन्द्रियाश्च क्षुत्पिपासाशीतोष्णवातादिभिः पञ्चेन्द्रियास्तिर्यञ्चश्च छेदभेददाहशस्त्रादिभिः, नारकाचत्रि विधया वेदनया. मनुष्याश्चक्षुत्पिपासाव्याधिदारिद्रयादिना, देवाश्च पराभियोगकिल्विषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्तीत्येषामकामनिर्जरेति ॥" ममयसारसूत्रवृत्त्योरप्येवमेवोक्तम् (अ०६) तथाहि-"इदानीं निर्जरातत्त्वं निगद्यते-"अणुभूअरसाणं कम्मपुग्गलाणं परिसडणं णिजरा ।" अनुभूतरसानां उपभुक्तविपाकानां कर्मपुद्गलानां, परिशटनमात्मप्रदेशेभ्यः प्रच्यवनं निर्जरा । अथ तस्या भेदावाह-“सा दुविहा पण्णत्ता सकामा अकामा य ।" सह कामेन 'निर्जरा मे भृयाद्' इत्यभिलाषेण न विहपरलोकादिकामेन युक्ता सकामा । अनन्तरोक्तकामवर्जिता त्वकामा । चशब्दः समुच्चये । उपायात्स्वतोऽपि वा फलानामिव कर्मणां पाकस्य भावानिर्जराया इदं द्वैविध्यमिति भावः । तत्राकामा केषाम् | इत्याह-" तत्थ अकामा सव्वजीवाणं" निर्जराभिलाषिणां तपस्तप्यमानानां सकामनिर्जरेति वक्ष्यमाणत्वाद् तद्वयतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलमवर्जितत्वाद् । एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह । तथाहि-"एगिदिआई तिरिआ
5