________________
धर्मपरीक्षां.
॥१३१॥
"
सिकतातैलवत् । नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्कि - श्चिदेतदित्यादि ॥ या च क्रियावादिसामान्यस्यान्तः पुद्गलपरावर्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षेण शुक्लपाक्षिकत्वमवलम्ब्य परिहर्तव्या । अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि सङ्गच्छते, "क्रियापक्ष एव शुक्लोsयापक्षस्तु कृष्ण" इति । अन्यथा निरवधारणपक्षाश्रयणे क्रियावादिवदक्रियावाद्यपि सम्यग्दृष्टिः स्यात् । अथवोत्कृष्टतः पुद्गलपरावर्त संसारिजाती यत्वमत्र शुक्लपाक्षिकत्वं तदधिकसंसारिजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति । तवं तु बहुश्रुता विदन्ति ॥ यत्तूच्यते केनचित् - अकामनिर्जराङ्गत्वान्न मिथ्यादृशां किमपि कृत्यमनुमोदनीयमिति । तदसत् मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणवतां ' कर्मक्षयो मे भूयाद् इतीच्छया स्वयोग्यशीलतपःप्रभृतिसदनुष्ठान कारिणां सकामनिराsनपायात् । 'सह कामेन मोक्षाभिलाषेण वर्तते या सा सकामा' 'तद्विपरीता त्वकामा' इति हि सकामा कामयोर्निर्जरयोर्लक्षणम् । तदुक्तं योगशास्त्रवृत्तौ (प्र० ४ श्लो० ८६ ) “सा निर्जरा द्वेधा । सह कामेन 'निर्जरा मे भूयाद्' इत्यभिलाषेण युक्ता सकामा, न त्विहलोक परलोक फलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् । यदाहुः - "नो इहलोगट्टयाए तवम हिद्विजा, (नो परलोगट्टयाए तब महिडिज, नो कित्तीवण्णसद्दसिलोगट्टयाए तवमहिद्विज, नन्नत्थ निज्जरख्याए तवमहिद्विजा ) इत्यादि ” इत्येका निर्जरा । द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जितेति । न च वाच्यं “ ज्ञेया सकामा यमिना -मकामा त्वन्यदेहिनाम् " ॥ ८७ ॥ इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकामा निर्जरा सिध्यति मिथ्यादृशां तु कर्मक्षयाद्यर्थं तपःकष्टं तन्वतामप्यकामैवेति ? ।
'
64
' ज्ञेया सकामा यमिनाम् " -- इत्यादिवचनस्योत्कृष्टसकामनिर्जरास्वामिकथनपरत्वाद्, उत्कृष्टा हि सकामनिर्जरा तेषामेव भवेदिति ।
सटिप्पणा ||खोपच
वृतिः ॥
गाथा - ३७ ॥ १३१ ॥