________________
+A
सटिप्पणा स्वोपड वृधि: गाथा-३७ ॥१२९॥
च नियमतो लभ्यते, अक्रियावादिनश्च नियमान्मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च तथापि नात्र निश्चयः कर्तुं पार्यते, अन्यत्रापापुद्गधर्मपरीक्षा
लपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् । तदुक्तम्-"जेसिमवड्डो पुग्गल-परिअट्टो सेसओ उ संसारो॥ते सुक्कपक्खिा ॥१२९॥
खलु, अहिए पुण कण्हपक्खिया ॥१॥" "येषामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यते, ते शुक्लपाक्षिकाः दक्षीणप्रायसंसाराः । खलुशब्दो विशेषणार्थः । प्राप्तदर्शना अप्राप्तदर्शना वा सन्तीति विशेषयति । अधिके पुनरपार्द्धपुद्गलपरावर्तात्सं
सारे, कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः॥" इत्यादि श्रावकप्रज्ञप्तिवृत्तौ। योगबिन्दुवृत्तावप्युक्तम् । तत्रापि शुक्लपाक्षिकोऽपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः । यत उक्तं "जेसिमबड्डो पुग्गल०" इत्यादि । ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादिनोऽपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव अपार्धपुद्गलपरावर्ताभ्यन्तरीभृतसंसाराणामप्यक्रियावादिनां सम्भवात् , तस्यापि कृष्णपाक्षिकत्वभजनाया एव सम्भवात् । नास्तिकत्वपक्षो ह्यक्रियावादः "अत्थित्ति किरियवाई वयन्ति, णस्थित्ति | अकिरियवाई"त्ति [ अस्तीति क्रियावादिनो वदन्ति, नास्तीति अक्रियावादिनः] वचनात् । स च कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति । अत एव भगवत्यां "सुकपक्खिया जहा सलेस्स"त्ति [शुक्लपाक्षिका यथा सलेश्या इति ।] सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसम्भव उपदर्शितः। तथा च सलेश्याधिकारप्रश्ननिर्वचनसूत्रम्-"सलेस्सा णं भंते जीवा किं किरियावादी ? पुच्छा । गोयमा ! किरियावादीवि, जाव बेणइअवादीवि"त्ति [सलेश्या भगवन् ! जीवाः किं क्रियावादिनः ? प्रश्नः। गौतम ! क्रियावादिनोऽपि यावत् वैनयिकवादिनोऽपीति ॥] तत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् । भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, "मिच्छदिछी जहा कण्हपक्खिया" इत्यतिदेशात् "कण्हपक्खियाणं भंते जीवा किं किरियावादी ? पुच्छा।
ISHABHAAL