________________
'धर्मपरीक्षा
॥ १२८ ॥
E
| मोक्षसौख्यमनुपमं ज्ञात्वा तदर्थ ज्ञातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः । तत्र चैकः प्रश्नमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतमिथ्यात्वे दिग्मोहसमतश्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाक्कायधनादिबलवत्तया भृशमुद्युक्तो विष्णुपुराणाद्युक्तशतधनुर्नृपादिदृष्टान्तेभ्यो वेदपुराणा युक्तिभ्यश्च सञ्जातजिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच्च यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो निजज्ञानक्रियादिगर्वादिनाऽन्यदर्शनि संसर्गालापजप्रायश्चित्तभिया मार्गमिलितसम्यक् पथिक तुल्यान् जैनमुनिश्राद्धादीन् समार्गमपृच्छन् यथा यथा प्रबलपादत्वरितगतिसमा अनन्तजीव पिण्डात्मकमूलकसेवालादिभोजनाग्निहोत्रादिका मिथ्यात्वक्रियाः प्रबलाः कुरुते, तथा तथा तज्जनितमहारम् भजीव घातादिपापकर्मवशादश्वग्रीवनृपतिपु रोहितादिवद् गाढगाढतरगाढत मदुःखयय कुमानुष्य तिर्यग्नरकादिकुगतिपतितो दुर्लभबोधितयाऽनन्तभव्यारण्ये चतुरशीतिलक्षजीवयोनिषु भ्राम्यन् शिवपुराद् भृशं दुरवत्यैव जायते पुनरनन्तेन कालेन तत्रागामुकत्वाद् || "किरियाबाई णियमा भविओ, नियमा सुकपक्लिओ, अंतो पुग्गलपरिअडस्स णियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छादिट्ठी वा हुआ ।। " इति दशाश्रुतस्कन्धचूर्ण्यपासक प्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्त करणादुत्तीर्णोऽपूर्वकरणसूर्योदये स्वं भ्रान्तं मन्यमानोऽकानिर्जरायोगादिना कथश्चिन्मनुजभवं प्राप्य कर्मक्षयोपशमवशाञ्जाततच्चान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगत दिग्मोहसममिध्यात्वहेतुकव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेश बहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्तमध्ये परेभ्यः पञ्चभ्यो (चतुभ्यों)पि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्षमवाप्नोतीति । ” ननु यद्यप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियवादिनः सम्यग्दृष्टि-मिथ्यादृष्टयन्यतरत्वमुत्कर्षतोऽन्तः पुद्गलपरावर्तमान संसारत्वेन शुक्लपाक्षिकत्वं
सटिप्पणा ॥ खोपड़ वृत्तिः ॥
गाथा - ३७ ॥१२८॥