________________
॥१२७॥
सटिप्पणा | ॥खोपड
वृत्तिः ॥ गाथा-३० ॥१२७॥
3GRIHSHOBHA
नामप्यनुमोद्यत्वापत्तिः । पुण्यप्रकृत्युदयप्राप्तस्यैव धर्मखानुमोद्यत्वे च चक्रवर्तिनः स्त्रीरत्नोपभोगादेरप्यनुमोद्यत्वापत्तिः । सम्यक्त्वनि- मित्तमात्रस्थ चानुमोद्यत्वेऽकामनिर्जराव्यसनादेरप्यनुमोद्यत्वापत्तिः । (आवश्यकनियुक्तिः) "अणुकंप-ऽकामणिज्जर-बालतवो दाणविणय विभंगे। संजोगविप्पओगे, वसणूसव-इड्डिसक्कारे ॥८४५॥" [अनुकम्पाऽकामनिर्जरा बालतपो-दानविनय-विभङ्गम् । संयोगविप्रयोगौ व्यसनोत्सवद्धिसत्कारम् ॥] इत्यादिनाऽनुकम्पादीनामपि सम्यक्त्वप्राप्तिनिमित्तत्वप्रतिपादनात् । धर्मबुद्ध्या क्रियमाणस्यैवानुष्ठानस्यानुमोद्यत्वे चामिग्रहिकमिथ्यादृशा धर्मबुद्ध्या क्रियमाणस्य जैनसमयत्यजनत्याजनादेरप्यनुमोद्यत्वापत्तिरिति 'सम्यक्त्वाभिमुखस्यैव | मार्गानुसारिकृत्यं साधुदानधर्मश्रवणाद्यनुमोद्यम्, नत्वन्यमार्गस्थस्य क्षमादिकमपि' इति परस्य कल्पनाजालमपास्तम्,” सामान्येनैव कुशलव्यापाराणामादिधार्मिकयोग्यानामनुमोद्यत्वप्रतिपादनात् , असत्कल्पनाऽनवकाशात , तीव्र प्रमादादिशबलस्य सम्यक्त्वस्येव तीब्राभिनिवेशदुष्टस्य मोक्षाशयादेरप्यननुमोद्यत्वेऽपि जात्या तदनुमोद्यत्वाऽनपायादिति फलतः स्वरूपतश्चानुमोद्यत्वविशेषव्यवस्था न काप्यनुपत्तिरिति । यस्त्वाह-सम्यग्दृष्टय एव क्रियावादिनः शुक्लपाक्षिकाच, न तु मिथ्यादृष्टय इति तेषां कृत्यं किमपि नानुमोद्यमिति । तेन न |मुष्ठ दृष्टम् , धर्मरुचिशालिनां सम्यग्दृशां मिथ्यादृशांचाविशेषेण क्रियावादित्वस्य शुक्लपाक्षिकत्वस्य च प्रतिपादनात् ॥ तदुक्तं दशाश्रुतस्कुन्धचूर्णी-"जो अकिरियावाई सोभविओ अभविओवा,णियमा कण्हपक्खिओ। किरियावादी णियमा भविओणियमा सुक्कपक्खिओ अंतोपुग्गलपुरिअट्टस्स णियमा सिज्झिहिति, सम्मदिट्ठीवा मिच्छदिट्ठी वा हुजत्ति॥"[योऽक्रियावादी स भव्योऽभन्यो वा, नियमात्कृष्णपाक्षिकः क्रियावादी नियमाद्भव्यो नियमाच्छुक्लपाक्षिकः,अन्तःपुद्गलपरावर्तस्य नियमात्सेत्स्यति,सम्यग्दृष्टिा मिथ्यादृष्टिा भवेदिति॥] एतत्संमतिपूर्वमुपदेशरत्नाकरे येवमुक्तम् तथाहि,(१तट अंशतरंग)"केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभन्ना
+
+