________________
सम्यग्दृष्टेः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्तव्या स्यात् , तद्गताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् । अथाविरतसम्यग्दृष्टयाधर्मपरीक्षा 5 दावविरत्यादेन स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम्,अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वा
लासटिप्पणा ॥१२२॥ | दिस्फुग्दोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे न तु गुणसामान्यमादाय प्रशंसनीयत्वम् , तत्कालीनतत्प्रशंसाया दोषानुमतिरूप
| खोपड
| चिः ॥ वादित्यविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिगुणानुमोदनेन दोष इति चेत् । तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो
गाथा-३५ दोषः, तत्वेतरनिन्दनायुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः। अवश्यं चैतदित्थं प्रतिपत्तव्यम् , ॥१२२॥ | अन्यथा मेधकुमारजीवहस्तिनोऽपि दयागुणपुरस्कारेण प्रशंसानुपपतिरिति । अन्यतीथिंकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतीथिकसाक्षिकत्वाभावेन मिथ्यात्ववृद्धिनिबन्धनत्वाभावात् , प्रत्युत तत्त्वतो जिनप्रवचनामिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव । अतः 'स्तोकस्यापि भगवदभिमतस्य गुणस्योपेक्षा न श्रेयसी' इत्यध्यवसायदशायां | तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणावहा । अत एव गुणानुरागसङ्कोचपरिहाराय स्तोकगुणालम्बनेनापि भवत्युद्धानं विधेयमि
त्युपदिशन्ति पूर्वाचार्याः। तदुक्तं बृहत्कल्पभाष्यवृत्त्योः-"दंसणनाणचरितं, तबविणयं जत्थ जत्तियं पासे । जिणपन भत्तीए, | पूयए तं तहिं भावं ॥ दर्शनं च निःशङ्कितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारादि, चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः । एवं तपश्चानशनादि, विनयश्वाभ्युत्थानादिरूपस्तपोविनयम् । एतद्दर्शनादि, यन्त्र पार्श्वस्थादौ पुरुष, यावत् यत्परिमाणं स्वल्पं बहु वा, पश्येत् जानीयात् , तत्र तमेव भावं जिनप्रज्ञप्तं वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेद्" इति ॥ तेन मार्गानुसारिकृत्ये सर्वमपि भावयोगादनुमोदनीयं प्रशंसनीयं चेति सिद्धम् । ३५॥
AGAUR
SECSIRECE