________________
धर्मपरीक्षा ॥१२॥
सटिप्पणा
वृचिः ॥ गाथा-३५ ॥१२१॥
CBSAIR549
तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु"ज किंचि नाम तित्थं " [ यत्किंचिद् नाम तीर्थ । ] इत्यादिना, "जावंति चेइआई." [यावन्ति चैत्यानि० ॥] इत्यादिना चाभिवन्द्यते एव, तत्वतस्तासामपि तीर्थत्वात् जिनबिम्वत्वाच्च । तथाऽत्रापि मिथ्यादृशां गुणाः सर्वेषां जीवानां दयाशीलादिकं शोभनम्' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते ? इति । उक्तं चैतत् धर्मविन्दुसूत्रवृत्त्योरपि (अ० २ ० ३) सद्धर्मदेशनाधिकारसाधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात् तथाहि ।। “साधारणगुणप्रशंसेति ॥ साधारणानां लोकलोकोत्तरयोः सामान्यानां, गुणानां, प्रशंसा-पुरस्कारो देशनार्हस्याग्रतो विधेया। यथा-"प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः॥ अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः, श्रुते चासन्तोषः कथमनभिजाते निवसति ॥१॥” इति ।" इयं च पुरुषविशेपानुपग्रहात्सामान्यप्रशंसैवेति । यद्यप्यत्रापि वाक्यार्थस्य विशेष एव पर्यवसानम् , तथाऽपि साधारणगुणानुरागस्यैवाभिव्यङ्गयत्वान्न मिथ्यात्वाभिवृद्धिरिति | द्रष्टव्यम् । स्यादत्र परस्येयमाशङ्का 'एवं सति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्तव्या स्यात् , अन्यतीर्थिकपरिगृहीताईत्प्रतिमाया विशेषेणावन्द्यत्ववद् अन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोऽप्रशंसनीयत्वात् । दोपवत्वेन प्रतिसन्धीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात् । अत एव सुखशीलजनवन्दनप्रशंसयोस्तद्गतप्रमादस्थानानुमोदनापतिरुक्ता । "किइकम्मं च पसंसा, सुहसीलजणमि कम्मबंधाय । जे जे पमायठाणा, ते तें उबबृहिया हुंति ॥" [कृतिकर्म च प्रशंसा | सुखशीलजने कर्मवन्धाय । यानि यानि प्रमादस्थानानि तानि तानि उपबंहितानि भवन्ति ॥ ] इत्यादिनाऽऽवश्यकादाविति " तत्र हैब्रमः-यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतदोषानुमतिपर्यवसायकमिति मिथ्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाऽविरत
CARRCHEACHEKHAR1
यास्तगतदोषानुमतिपयतीर्थिकपरिगृहीतगुणाकालादिगणपुरस्कारेण प्र