________________
धर्मपरीक्षा ॥१२०॥
सटिप्पणा
खोपज्ञ वृत्तिः ॥ गाथा-३५ ॥१२०॥
+
गज्ञानाद्ययोगतः ॥ २१३ ॥ तृतीयमप्यदः किन्तु, तत्वसंवेदनानुगम् ॥ प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्य वर्जितम् ॥२१४॥” इति । ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनर्बन्धकादौ कथश्चित्सुन्दरम् , तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं नान्यस्य, "जो चेव भावलेसो सो चेव भगवओ अणुमओ।"[य एव भावलेशः स एव भगवतोऽनुमतः ॥] इत्यत्र भगवद्वहुमानरू. | पस्यैव भावलेशस्थानुमोद्यत्वप्रतिपादनादिति चेद् । न, अन्यत्रापि भवामिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तवतो भगवद्वहुमानरूपत्वाद् भवनिर्वेदस्यैव भगवद्वहुमानत्वाद्' इति ललितविस्तरापञ्जिकावचनात् , स्वरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगव त्प्रणीतमेवेति तत्प्रशंसया भवत्येव भगवद्वहुमानः । व्युत्पन्ना ह्यन्यशास्त्रे कथश्चिदुपनिबद्धानपि मार्गानुसारिगुणान् भगवत्प्रणीतत्वेनैव प्रतियन्ति । तदाहुः श्रीसिद्धसेनसूरयः(द्वा०१) सुनिश्चित नः परतन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्त(क्ति)सम्पदः॥ तवैव ताः पूर्वमहार्णवोद्धृता (त्थिता) जगत्प्रमाणं जिनवाक्यविपुषः॥३०॥इति" नन्दिवृत्तावप्येवमेवोक्तम्-“परदर्शनशास्त्रेष्वपि हि यःकश्चित्समीचीनोऽर्थः संसारासारता-स्वर्गापवर्गादिहेतुःप्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः। न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद् । न चातीन्द्रियार्थपरिज्ञानं परतीथिकानामस्तीत्येतदने वक्ष्यामः। ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादमिनिवेशवशतः स्वस्वमत्यनुसारेण तास्ताः स्वस्वप्रक्रियाः प्रपश्चितवन्तः । उक्तं च स्तुतिकारेण- "सुनिश्चितं." इत्यादि ॥" ननु दयादिवचनानि परमते तत्वतो जिनवचनमूलान्यपि स्वस्वमताधिदैवतवचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिमिः स्वस्वदैवतबिम्बत्वेन परिगृहीता. ऽहत्प्रतिमाऽप्युपासकदशाङ्गादिष्ववन्धत्वेन प्रतिपादितेति चेत् । अत्र वदन्ति सम्प्रदायविदः यथा मिथ्याहपरिगृहीता
AASHISCALASAHEGENERAL
5
+