________________
धर्मपरीक्षा
॥११८॥
यं इय सुद्धं तंतजुती ॥ २८॥ पं० ६ ] इति प्रतीकं विवृण्वता यतेरपि भावस्तवारूढसाधोरपि न केवलं गृहिण एव । हुशब्दोऽलङ्कृतौ । द्रव्यस्त व भेदो द्रव्यस्तवविशेषः, अनुमोदनेन जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या अस्ति विद्यते, इतिशब्दो वाक्यपरिसमाप्ताविति ॥ ३४ ॥ एवमनुमोदनाप्रशंसयोर्विषयभेदाभावे सिद्धेऽनुमोदनीय प्रशंसनीययोर्विषमव्याप्तिं परिहरन्नाहते ममोअणिज्जं, पसंसणिज्जं च होइ जाईए ॥ सुद्धं किच्चं सव्वं, भावविसिहं तु अन्नंपि ॥ ३५ ॥ [ तेनानुमोदनीयं प्रशंसनीयं च भवति जात्या । शुद्धं कृत्यं सर्वे भावविशिष्टं त्वन्यदपि ॥ ३५ ॥ ]
'तेणं'ति । तेनानुमोदनाप्रशंसयोर्विषय भेदाभावेन, अनुमोदनीयं प्रशंसनीयंच सर्वं शुद्धं स्वरूपकृत्यं दयादानशीलादिकं च, जात्या स्वरूपयोग्यतावच्छेदकरूपेण भवति । यद्वपावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्रूपविशिष्टप्रतिसन्धानस्य तद्रूपावच्छिन्नविषयकहर्षजनकत्वाद् । अत एव शुद्धाहारग्रहणदानादिव्यक्तीनां सर्वासामसुन्दरत्वेऽपि कासा ञ्चिच्चाशुद्धाहारग्रहणदानादिव्यक्तीनामप्यपवादकालभांविनीनां सुन्दरत्वेऽपि साधोः शुद्धाहारग्रहणं सुन्दरम् श्रावकस्थ च शुद्धाहारदानमित्ययमेवोपदेशो युक्तो न त्वशुद्धाहारग्रहणदानो|पदेशोऽपि, सामान्य पर्यवसायित्वात्तस्य; सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात् स्वरूपशुद्धं हि वस्तु जात्याप्यनुमोद्यमानं हितावहमिति । भावविशिष्टं तु-अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशुद्धादिकमपि वस्त्वनुमोद्यम् । 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसम्भवात् । न चैवमपुनर्बन्धकोचितविपयशुद्धकृत्येऽपि साधोः प्रवृत्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवर्त्यनुष्ठाने स्वोत्साहसम्भवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः । अत एवं 'शोभनमिदमे तावज्जन्मफलम विरतानाम्' इतिवचन लिङ्गगम्य स्वोत्साहविषयेऽपि जिनपूजादौ
सटिप्पणा ॥ खोपड़
वृचिः ॥
गाथा - ३५ ॥११८॥