SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥११७॥ १ यत्वात्प्रशंसनीयत्वाच्च । न चानुमोदनायाः स्वष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपःसंयमादेरारम्भपरिग्रहादेव विरतैरविरतैश्चानुमोदनात् न तु परेष्टसाधकम्, आत्मनश्चानिष्टसाधनमपि निजधनापहारस्याप्यनुमोदनीयत्वापत्तेः । प्रशंसाया श्रेष्ठमनिष्टं च वस्तु वियः इष्टस्य धार्मिकानुष्ठानस्यानिष्टस्य चाज्ञाबाह्यस्य वस्तुनः प्रशंसा व्यवस्थितेः । भवति हि निजकार्यादिनिमित्तमसद्गुणस्यापि प्रशंसा । अत एवायमागमोsपि - ( स्थानांगअ०४०३७० ) " चउहिं ठाणेहिं असं ते गुणे दीवेज्जा, १अब्भासवत्तियं २परछंदाणुवत्तियं ३ कज्जहे उ ४ कयपडिकइए "त्ति । [ चतुर्भिः स्थानैरसतो गुणान् दीपयेत् १ अभ्यासप्रत्ययं २ परच्छन्दानुवृत्तिकं ३ कार्यहेतु ४ कृतप्रतिकृत्याः इति ||] सा चेयमनिष्टप्रशंसाऽतिचाररूपापि प्रयोजन विशेषेण कस्यचित्कादाचित्की स्यादित्येतदपि वचनं शोभनम्, स्वारसिकप्रशंसाया अनिष्टा विषयत्वात्पुष्टालम्बनकानिष्टप्रशंसाया अपीष्टविषयत्वपर्यवसानात् । न हि किञ्चित्येष्टमनिष्टं वा वस्तु विद्यतें, किन्तु परिणामविशेषेण भजनीयमिति । यदुवाच कल्पाकल्पविभागमाश्रित्य वाचकमुख्यः - " किश्चिच्छुद्धं कल्प्यमकल्प्यं, स्यादकल्प्यमपि कल्प्यम् ॥ पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥ १ ॥” इति । मोहप्रमादादिनाऽनिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया |अपि भवतीति न कोऽपि विषयभेदः । न चानिष्टविषयतावच्छेदेनोपचारानुपचार प्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारेणातिचारत्वाभावात् । अन्यथा - "संथरणंमि असुद्धं, दोण्हवि गिण्तदितयाणहियं । आउरदितेणं, तं चैव हियं असंथरणे ॥ १ ॥” [ संस्तरणे अशुद्धं द्वयोरपि गृह्णद्ददतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ||] इत्यादौ कारणिका शुद्धग्रहणप्रशंसाया अप्यतिचा| रत्वप्रसङ्गाद् | अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु विषयभेद इति यत्किञ्चिदेतत् । शास्त्रेऽपि प्रशंसा अनुमोदनाविशेष एव गीयते । तदुक्तं पञ्चाशक वृत्तिकृता - " जइणोवि हु दवत्थय मेओ अणुमोअणेण अत्थित्ति । [ एयंच सटिप्पणा ॥ स्वोपज्ञ वृतिः ॥ गाथा - ३४ ॥११॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy