________________
सटिप्पणा ॥स्वोपक्ष दृचिः ॥ गाथा-३४ ॥११६॥
धर्मपरीक्षा
४ तदुत्पादनद्वारा । यद् हारिभद्रं वचः-(पंचा०६)"कजं इच्छंतेण, अणंतरं कारणंपि इटुंति(तु)।जह आहारजतित्ति, इच्छंतेणेहमाहारो
॥३४॥"त्ति [कार्यमिच्छता अनन्तरं कारणमपीष्टमिति । यथाऽऽहारजतृप्तिमिच्छता इहाहारः॥] पुरुषस्य च तत्सम्बन्धितयेति तत्त्वतः ॥११॥
सर्वत्र भावापेक्षमेवानुमोदनीयत्वं पर्यवस्यति । साऽनुमोदना, पुनःप्रमोदमूलो हर्षपूर्वकः,त्रयाणां योगानां कायवाङ्मनसां, व्यापारो रोमाञ्चोद्गम-प्रशंसा-प्रणिधानलक्षणो न तु मानसव्यापार एव, करणकारणयोरिवानुमोदनाया अपि योगभेदेन त्रिविधायाः सिद्धान्ते प्रतिपादनात् । मानसव्यापारस्यैवानुमोदनात्वे प्रशंसादिसंवलनादनुमोदनाफलविशेषानुपपत्तेश्च । न च यथा नैयायिकैकदेशिनां मङ्गलत्वादिकं मानसत्वव्याप्या जातिस्तथाऽस्माकमनुमोदनात्वमपि तथेति, त्रयाणामपि योगानां हर्षमूलो व्यापारोऽनुमोदनेति वस्तुस्थितिः, यश्चानुमोदनाव्यपदेशः क्वचिच्चित्तोत्साहे एव प्रवर्तते स सामान्यवाचकपदस्य विशेषपरत्वात् निश्चयाश्रयणाद्वेत्यवधेयम्।।३३।।
_____एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति तन्मतनिरासार्थमाह-- है सामन्नविसेसत्ता, भेओ अणुमोअणापसंसाणं । जह पुढवीदव्वाणं, ण पुढो विसयस्स भेएणं ॥ ३४ ॥
[सामान्य विशेषत्वाद् भेदोऽनुमोदनाप्रशंसयोः । यथा पृथिवीद्रव्ययोः, न पृथग् विषयस्य भेदेन ॥ ३४॥] 'सामन्नविसेसत्त'त्ति। अनुमोदनाप्रशंसयोःसामान्यविशेषत्वात् सामान्य विशेषभावाद्भेदः,यथा पृथिवीद्रव्ययोः, द्रव्यं हि सामान्य, पृथिवी च विशेषः । एवमनुमोदना सामान्य प्रशंसा च विशेष इत्येतावाननयोर्मेदः, न पुनः पृथग् विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः। न हि घटप्रत्यक्षं प्रत्यक्षभिन्नविषयमिति विपश्चिता वक्तुं | युक्तम् , न च मानसोत्साहरूपाऽनुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनी
AAAAAA