SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्ष ॥११४॥ विधिशुद्धव्यवहारस्य भावहीनस्याप्याराधकत्व प्रयोजकत्वे किं बाधकं परं प्रति तस्य निश्चयप्रापकत्वाद् इत्यत आहभावुझियवहारा, ण किंपि आराहगत्तणं होइ ॥ भावो उ बोहिबीजं, सव्वणुमयंमि थोवोवि ॥ ३१ ॥ [ भावोज्झितव्यवहारान्न किमप्याराधकत्वं भवति । भावस्तु बोधिवीजं सर्वज्ञमते स्तोकोऽपि ॥ ३१ ॥ ] भावुझिअति । भावोज्झितव्यवहाराद् भवामिनन्दिनां द्रव्यत्रतधारिणां विधिसमग्रादपि न किमप्याराधकत्वं भवति, परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याकारित्वाद् । भावस्तु सर्वज्ञमते स्तोकोऽपि बोधिबीजभू, विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद् । अत एवापूर्वा धर्मचिन्ताऽपि प्रथमं समाधिस्थानमुक्तम् । तदुक्तं समवायाङ्गे (१० सम० ) " धम्मचिंता वा से असमुप्पण्णपुद्दा समुप्पजेजा सवं धम्मं जाणित्तए " ति ॥ एतद्वृत्तिर्यथा - " तत्र धर्मा जीवादिद्रव्याणां उपयोगोस्पादादयः स्वभावास्तेषां चिन्ता - अनुप्रेक्षा, धर्मस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य 'हरिहरादिनिगदितधर्मेभ्यः प्रधाaiseम्' इत्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः, से इति यः कल्याणभागी तस्य साधोः, असमुत्पन्नपूर्वा पूर्वस्मिन्ननादावतीतकालेऽनुपजाता, तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते (न्तः) कल्याणस्यावश्यंभावात्, समुत्पद्येतजायेत सः । किं प्रयोजनाय चेयम् १ अत आह- सर्वं निरवशेषं, धर्मं जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा, जाणितर ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म (कर्म) परिहर्तुम् । इदमुक्तं भवति - धर्मचिन्ता धर्मज्ञानकरणरूपा (भूता) जायते इति ॥ " अत्रापूर्वधर्मचिन्ताया उत्कर्षतोऽपार्द्धपुद्गलपरावर्तव्यवधानेन कल्याणकारणत्वमुक्तम्, अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गलपरावर्तव्यवधानेनेति प्रवचनपूर्वापरभावपर्यालोचनया गुणसामान्यस्य चरमावर्तमानत्वमस्माभिरुन्नीयते । यदि सटिप्पणा ॥ खोपय वृचिः ॥ गाथा - ३१ ॥११४॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy