________________
श्रेयः, तद्पो योऽर्थः वस्तु स हितार्थस्तस्मै हितार्थाय, सम्यगविपरीततया। यदा हि गीतार्था विधिना खयं वन्दनां विदधति, अन्याँ
सटिप्पवा धमपरीक्षाश्च तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् ॥ आह च-"जो उत्तमेहिं मग्गो, पहओ |
| ॥स्वोपड़ ॥११३॥ | सो दुक्करो न सेसाणं ।। आयरिश्रमि जयंते,तयणुचरा(रो)के णु सीयंति(केणसीएज्जा)।[य उत्तमैर्मार्गः प्रहतः स दुष्करो न शेषाणाम् ।
वृत्तिः ॥ | आचार्य जयति(यतमाने)तदनुचराः के नु सीदन्तिः॥]तथा ॥जे जत्थ जया जइआ, बहुस्सुआ चरणकरणउज्जुत्ता॥ जंते समायरंती, गाथा-३. आलंवणं तिब्बसद्धाण। [ये यत्र यदा यदा बहुश्रुताश्चरणकरणोपयुक्ताः। यत्ते समाचरन्ति आलम्बनं तीव्रश्रद्धानाम् ।]जयत्ति दुःषमादौ, IP॥११३॥ जइअति दुर्भिक्षादाविति । तथाप्रवृत्ताश्च ते वन्दनाराधनजन्यं हितमासादयन्ति, तद्विराधनाजन्यप्रत्यपायेभ्यश्च मोचिता भवन्तीति । अयं चोपदेशोऽसमञ्जसतया स्वयं वन्दनां विदधानांस्तथाऽनवाप्तापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितल्लिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन् वीक्ष्य आचार्येण विहितः, एवं हि तत्प्रवृत्तौ तेषामन्येषां चानर्थोऽसमञ्जसक्रियाजन्या च शासनापभ्राजना मा भूदित्यभिप्रायेणेति गाथार्थ इति ।" अत एव च कालानुभावान्जैनप्रवचनेऽप्यल्पस्यैव जनस्याराधकस्य दर्शनात् जिनाज्ञारुचिशुद्धेष्वेव भक्तिबहुमानादि कार्यमिति पूर्वाचार्या वदन्ति ॥ उक्तं चोपदेशपदे "एवं पाएण जणा, कालणुभावा इहंपि सब्वेवि । णो सुंदरति तम्हा, आणासुद्धेसु पडिबंधो ॥"त्ति ॥८३९॥ एतवृत्तिर्यथा, एवमनन्तरोक्तोदाहरणवत्, प्रायेण बाहुल्येन, जना लोकाः, कालामुभावाद वर्तमानकालसामर्थ्याद्, इहापि जने मतेऽपि, सर्वेऽपि साधवः श्रावकाच, नो नैव, सुन्दराः शास्त्रोक्ताचारसारा वर्तन्ते, किन्त्वनाभोगादिदोषाच्छास्त्रप्रतिकूलप्रवृत्तयः, इतिः पूर्ववत्, तस्मात्कारणात्, आज्ञाशुद्धेषु सम्यगधीतजिनागमाचारवशाच्छुद्धिमागतेषु साधुषु श्रावकेषु च, प्रतिबन्धः बहुमानः कर्तव्य इति"॥३०॥ नन्वेवं विधिविकलव्यवहारस्याराधकत्वाप्रयोजकत्वेऽपि
SANCHANNECHECE